अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 8
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - अध्यात्म सूक्त
तस्यै॒ष मारु॑तो ग॒णः स ए॑ति शि॒क्याकृ॑तः ॥
स्वर सहित पद पाठतस्य॑ । ए॒ष: । मारु॑त: । ग॒ण: । स: । ए॒ति॒ । शि॒क्याऽकृ॑त: ॥४.८॥
स्वर रहित मन्त्र
तस्यैष मारुतो गणः स एति शिक्याकृतः ॥
स्वर रहित पद पाठतस्य । एष: । मारुत: । गण: । स: । एति । शिक्याऽकृत: ॥४.८॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(तस्य) परमेश्वरस्य रचितः (एषः) दृश्यमानः (मारुतः) मारुतं मरुतां मनुष्याणामिदम्-दयानन्दभाष्ये, ऋग्० २।११।१४। मनुष्यसम्बद्धः (गणः) समूहः (सः) (एति) व्याप्नोति (शिक्याकृतः) स्रंसेः शिः कुट् किच्च। उ० ५।१६। स्रंसु अधःपतने गतौ-यत्, कित् कुट् च, धातोः शि-इत्यादेशः, टाप्। शिक्यायां काचे कृतो धृतो यथा ॥
इस भाष्य को एडिट करें