अथर्ववेद - काण्ड 17/ सूक्त 1/ मन्त्र 10
सूक्त - आदित्य
देवता - त्र्यवसाना अष्टपदाधृति
छन्दः - ब्रह्मा
सूक्तम् - अभ्युदयार्थप्रार्थना सूक्त
त्वं न॑इन्द्रो॒तिभिः॑ शि॒वाभिः॒ शन्त॑मो भव। आ॒रोहं॑स्त्रिदि॒वं दि॒वो गृ॑णा॒नःसोम॑पीतये प्रि॒यधा॑मा स्व॒स्तये॒ तवेद्वि॑ष्णो बहु॒धा वी॒र्याणि। त्वं नः॑पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥
स्वर सहित पद पाठत्वम् । न॒: । इ॒न्द्र॒ । ऊ॒तिऽभि॑: । शि॒वाभि॑: । शम्ऽत॑म: । भ॒व॒ । आ॒ऽरोह॑न् । त्रि॒ऽदि॒वम् । दि॒व: । गृ॒णा॒न: । सोम॑ऽपीतये । प्रि॒यऽधा॑मा । स्व॒स्तये॑ । तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्या᳡णि । त्वम् । न॒: । पृ॒णी॒हि॒ । प॒शुऽभि॑: । वि॒श्वऽरू॑पै: । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे । विऽओ॑मन ॥१.१०॥
स्वर रहित मन्त्र
त्वं नइन्द्रोतिभिः शिवाभिः शन्तमो भव। आरोहंस्त्रिदिवं दिवो गृणानःसोमपीतये प्रियधामा स्वस्तये तवेद्विष्णो बहुधा वीर्याणि। त्वं नःपृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥
स्वर रहित पद पाठत्वम् । न: । इन्द्र । ऊतिऽभि: । शिवाभि: । शम्ऽतम: । भव । आऽरोहन् । त्रिऽदिवम् । दिव: । गृणान: । सोमऽपीतये । प्रियऽधामा । स्वस्तये । तव । इत् । विष्णो इति । बहुऽधा । वीर्याणि । त्वम् । न: । पृणीहि । पशुऽभि: । विश्वऽरूपै: । सुऽधायाम् । मा । धेहि । परमे । विऽओमन ॥१.१०॥
अथर्ववेद - काण्ड » 17; सूक्त » 1; मन्त्र » 10
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १०−(त्वम्) (नः) अस्मभ्यम् (इन्द्र) हे परमैश्वर्यवन् जगदीश्वर (ऊतिभिः) रक्षाभिः (शिवाभिः) मङ्गलयुक्ताभिः (शन्तमः) सुखयितृतमः (भव) (आरोहन्) आरूढ उन्नतः सन् (त्रिदिवम्) अ० ९।५।१०। दिवुव्यवहारे-क। त्रयो दिवा आयव्ययवृद्धिरूपा यस्मिंस्तं व्यवहारम् (दिवः)व्यवहारान् (गृणानः) विज्ञापयन्। उपदिशन् (सोमपीतये) ऐश्वर्यरक्षणाय। अमृतपानाय (प्रियधामा) प्रियपदः। प्रियतेजाः (स्वस्तये) शोभनास्तित्वाय। सुदशाप्राप्तये।अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें