अथर्ववेद - काण्ड 17/ सूक्त 1/ मन्त्र 25
सूक्त - आदित्य
देवता - अनुष्टुप्
छन्दः - ब्रह्मा
सूक्तम् - अभ्युदयार्थप्रार्थना सूक्त
आदि॑त्य॒नाव॒मारु॑क्षः श॒तारि॑त्रां स्व॒स्तये॑। अह॒र्मात्य॑पीपरो॒ रात्रिं॑ स॒त्राति॑पारय ॥
स्वर सहित पद पाठआदि॑त्य । नाव॑म् । आ । अ॒रु॒क्ष॒: । श॒त॒ऽअरि॑त्राम् । स्व॒स्तये॑ । अह॑:। मा॒ । अति॑ । अ॒पी॒प॒र॒: । रात्रि॑म् । स॒त्रा । अति॑ । पा॒र॒य॒ ॥१.२५॥
स्वर रहित मन्त्र
आदित्यनावमारुक्षः शतारित्रां स्वस्तये। अहर्मात्यपीपरो रात्रिं सत्रातिपारय ॥
स्वर रहित पद पाठआदित्य । नावम् । आ । अरुक्ष: । शतऽअरित्राम् । स्वस्तये । अह:। मा । अति । अपीपर: । रात्रिम् । सत्रा । अति । पारय ॥१.२५॥
अथर्ववेद - काण्ड » 17; सूक्त » 1; मन्त्र » 25
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २५−(आदित्यः) म० २४। हे अखण्डप्रभाव परमात्मन् (नावम्) (आअरुक्षः) आरूढवानसि (शतारित्राम्) शतं बहूनि अरित्राणि उदकाकर्षणसाधनानिविद्यन्ते यस्यां ताम् (स्वस्तये) क्षेमाय (अहः) दिनकार्यमित्यर्थः (मा) माम् (अति अपीपरः) पॄ पालनपूरणयोः-णिचि लुङ्। पारं प्रापितवानसि (रात्रिम्)रात्रिकर्तव्यमित्यर्थः (सत्रा) सत्यं निश्चयेन (अति पारय) पॄ-णिचि, यद्वा, पारकर्मसमाप्तौ-लोट्। सर्वथा पारं गमय ॥
इस भाष्य को एडिट करें