अथर्ववेद - काण्ड 17/ सूक्त 1/ मन्त्र 22
सूक्त - आदित्य
देवता - द्विपदा अनुष्टुप्
छन्दः - ब्रह्मा
सूक्तम् - अभ्युदयार्थप्रार्थना सूक्त
उ॑द्य॒ते नम॑उदाय॒ते नम॒ उदि॑ताय॒ नमः॑। वि॒राजे॒ नमः॑ स्व॒राजे॒ नमः॑ स॒म्राजे॒ नमः॑॥
स्वर सहित पद पाठउ॒त्ऽय॒ते । नम॑: । उ॒त्ऽआ॒य॒ते । नम॑: । उत्ऽइ॑ताय । नम॑: । वि॒ऽराजे॑ । नम॑: । स्व॒ऽराजे॑ । नम॑: । स॒म्ऽराजे॑ । नम॑: ॥१.२२॥
स्वर रहित मन्त्र
उद्यते नमउदायते नम उदिताय नमः। विराजे नमः स्वराजे नमः सम्राजे नमः॥
स्वर रहित पद पाठउत्ऽयते । नम: । उत्ऽआयते । नम: । उत्ऽइताय । नम: । विऽराजे । नम: । स्वऽराजे । नम: । सम्ऽराजे । नम: ॥१.२२॥
अथर्ववेद - काण्ड » 17; सूक्त » 1; मन्त्र » 22
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २२−(उद्यते)प्रलयसृष्टिसन्धिदशायामुदयं गच्छते परमेश्वराय (नमः) नमस्कारः (उदायते)उत्+आङ्+इण् गतौ-शतृ। सृष्टिकाल उदयमागच्छते (उदिताय) सृष्टिसमाप्तिकाल उदयंप्राप्ताय (विराजे) विविधेश्वराय (स्वराजे) स्वयमैश्वर्यवते (सम्राजे)राजराजेश्वराय। अन्यद् गतम् ॥
इस भाष्य को एडिट करें