Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 17/ सूक्त 1/ मन्त्र 27
    सूक्त - आदित्य देवता - जगती छन्दः - ब्रह्मा सूक्तम् - अभ्युदयार्थप्रार्थना सूक्त

    प्र॒जाप॑ते॒रावृ॑तो॒ ब्रह्म॑णा॒ वर्म॑णा॒हं क॒श्यप॑स्य॒ ज्योति॑षा॒ वर्च॑सा च।ज॒रद॑ष्टिः कृ॒तवी॑र्यो॒ विहा॑याः स॒हस्रा॑युः॒ सुकृ॑तश्चरेयम् ॥

    स्वर सहित पद पाठ

    प्र॒जाऽप॑ते: । आऽवृ॑त: । ब्रह्म॑णा । वर्म॑णा । अ॒हम् । क॒श्यप॑स्य । ज्योति॑षा । वर्च॑सा । च॒ । ज॒रत्ऽअ॑ष्टि: । कृ॒तऽवी॑र्य: । विऽहा॑या: । स॒हस्र॑ऽआयु: । सुऽकृ॑त: । च॒रे॒य॒म् ॥१.२७॥


    स्वर रहित मन्त्र

    प्रजापतेरावृतो ब्रह्मणा वर्मणाहं कश्यपस्य ज्योतिषा वर्चसा च।जरदष्टिः कृतवीर्यो विहायाः सहस्रायुः सुकृतश्चरेयम् ॥

    स्वर रहित पद पाठ

    प्रजाऽपते: । आऽवृत: । ब्रह्मणा । वर्मणा । अहम् । कश्यपस्य । ज्योतिषा । वर्चसा । च । जरत्ऽअष्टि: । कृतऽवीर्य: । विऽहाया: । सहस्रऽआयु: । सुऽकृत: । चरेयम् ॥१.२७॥

    अथर्ववेद - काण्ड » 17; सूक्त » 1; मन्त्र » 27

    टिप्पणीः - २७−(प्रजापतेः) प्राणिपालकस्य (आवृतः) समन्ताद् वेष्टितः (ब्रह्मणा) वेदज्ञानेन (वर्मणा) आश्रयेण रक्षणेन (अहम्) उपासकः (कश्यपस्य) अ० २।३३।७। कृञादभ्यः संज्ञायां वुन्। उ० ५।३५। दृशिर्प्रेक्षणे-वुन्, पश्यादेशः, आद्यन्ताक्षरविपर्ययेण सिद्धिः। पश्यकस्य।सर्वद्रष्टुः परमेश्वरस्य (ज्योतिषा) तेजसा (वर्चसा) प्रतापेन (च) (जरदष्टिः) अ०२।२८।५। जरतिरर्चतिकर्मा-निघ० ३।१४। जीर्यतेरतृन्। पा० ३।२।१०४। जॄस्तुतौ-अतृन्+अशू व्याप्तौ, अश भोजने वा-क्तिन्। जरता स्तुत्या सह अष्टिःकार्यव्याप्तिर्भोजनं वा यस्य सः (कृतवीर्यः) पर्याप्तपराक्रमः (विहायाः)वहिहाधाञ्भ्यश्छन्दसि। उ० ४।२२१। ओहाङ् गतौ-असुन्, णिद्वद्भावाद् युगागमः।विविधगतियुक्तः। बहुप्रयत्नः (सहस्रायुः) आयुः, अन्ननाम-निघ० २।७। छन्दसीणः। उ०१।२। इण् गतौ-उण्। सहस्रप्रकारेणान्नयुक्तः। (सुकृतः) पुण्यकर्मा (चरेयम्)गच्छेयम् ॥

    इस भाष्य को एडिट करें
    Top