अथर्ववेद - काण्ड 17/ सूक्त 1/ मन्त्र 16
सूक्त - आदित्य
देवता - त्र्यवसाना सप्तदातिधृति
छन्दः - ब्रह्मा
सूक्तम् - अभ्युदयार्थप्रार्थना सूक्त
त्वं र॑क्षसेप्र॒दिश॒श्चत॑स्र॒स्त्वं शो॒चिषा॒ नभ॑सी॒ वि भा॑सि। त्वमि॒मा विश्वा॒ भुव॒नानु॑तिष्ठस ऋ॒तस्य॒ पन्था॒मन्वे॑षि वि॒द्वांस्तवेद्वि॑ष्णो बहु॒धावी॒र्याणि। त्वंनः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥
स्वर सहित पद पाठत्वम् । र॒क्ष॒से॒ । प्र॒ऽदिश॑: । चत॑स्र: । त्वम् । शो॒चिषा॑ । नभ॑सी॒ इति॑ । वि । भा॒सि॒ । त्वम् । इ॒मा । विश्वा॑ । भुव॑ना । अनु॑ । ति॒ष्ठ॒से॒ । ऋ॒तस्य॑ । पन्था॑म् । अनु॑ । ए॒षि॒ । वि॒द्वान् । तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्या᳡णि । त्वम् । न॒: । पृ॒णी॒हि॒ । प॒शुऽभि॑: । वि॒श्वऽरू॑पै: । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे । विऽओ॑मन् ॥१.१६॥
स्वर रहित मन्त्र
त्वं रक्षसेप्रदिशश्चतस्रस्त्वं शोचिषा नभसी वि भासि। त्वमिमा विश्वा भुवनानुतिष्ठस ऋतस्य पन्थामन्वेषि विद्वांस्तवेद्विष्णो बहुधावीर्याणि। त्वंनः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥
स्वर रहित पद पाठत्वम् । रक्षसे । प्रऽदिश: । चतस्र: । त्वम् । शोचिषा । नभसी इति । वि । भासि । त्वम् । इमा । विश्वा । भुवना । अनु । तिष्ठसे । ऋतस्य । पन्थाम् । अनु । एषि । विद्वान् । तव । इत् । विष्णो इति । बहुऽधा । वीर्याणि । त्वम् । न: । पृणीहि । पशुऽभि: । विश्वऽरूपै: । सुऽधायाम् । मा । धेहि । परमे । विऽओमन् ॥१.१६॥
अथर्ववेद - काण्ड » 17; सूक्त » 1; मन्त्र » 16
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १६−(त्वम्) (रक्षसे) रक्षसि। पालयसि (प्रदिशः) प्रकृष्टादिशाः (चतस्रः) चतुःसंख्याकाः (त्वम्) (शोचिषा) प्रकाशेन (नभसी) सुपां सुलुक्०।पा० ७।१।३९। पूर्वसवर्णदीर्घः। ईदूतौ च सप्तम्यर्थे। पा० १।१।१९। इति प्रगृह्यम्।नभस्योर्द्यावापृथिव्योर्मध्ये (वि) विविधम् (भासि) दीप्यसे (त्वम्) (इमा)दृश्यमानानि (विश्वा) सर्वाणि (भुवना) लोकान् (अनु) प्रति (तिष्ठसे) वर्त्तसे (ऋतस्य) सत्यधर्मस्य (पन्थाम्) मार्गम् (अनु) निरन्तरम् (एषि) गच्छसि (विद्वान्)जानन् सन्। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें