अथर्ववेद - काण्ड 17/ सूक्त 1/ मन्त्र 8
सूक्त - आदित्य
देवता - त्र्यवसाना सप्तदातिधृति
छन्दः - ब्रह्मा
सूक्तम् - अभ्युदयार्थप्रार्थना सूक्त
मा त्वा॑दभन्त्सलि॒ले अ॒प्स्वन्तर्ये पा॒शिन॑ उप॒तिष्ठ॒न्त्यत्र॑। हि॒त्वाश॑स्तिं॒दिव॒मारु॑क्ष ए॒तां स नो॑ मृड सुम॒तौ ते॑ स्याम॒ तवेद्वि॑ष्णो बहु॒धा वी॒र्याणि। त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥
स्वर सहित पद पाठमा । त्वा॒ । द॒भ॒न् । स॒लि॒ले। अ॒प्ऽसु । अ॒न्त: । ये । पा॒शिन॑: । उ॒प॒ऽतिष्ठ॑न्ति । अत्र॑ । हि॒त्वा । अश॑स्तिम् । दिव॑म् । आ । अ॒रु॒क्ष॒: । ए॒ताम् । स: । न॒: । मृ॒ड॒ ।सु॒ऽम॒तौ । ते॒ । स्या॒म॒ । तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्या᳡णि । त्वम् । न॒: । पृ॒णी॒हि॒ । प॒शुऽभि॑: । वि॒श्वऽरू॑पै: । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे । विऽओ॑मन् ॥१.८॥
स्वर रहित मन्त्र
मा त्वादभन्त्सलिले अप्स्वन्तर्ये पाशिन उपतिष्ठन्त्यत्र। हित्वाशस्तिंदिवमारुक्ष एतां स नो मृड सुमतौ ते स्याम तवेद्विष्णो बहुधा वीर्याणि। त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥
स्वर रहित पद पाठमा । त्वा । दभन् । सलिले। अप्ऽसु । अन्त: । ये । पाशिन: । उपऽतिष्ठन्ति । अत्र । हित्वा । अशस्तिम् । दिवम् । आ । अरुक्ष: । एताम् । स: । न: । मृड ।सुऽमतौ । ते । स्याम । तव । इत् । विष्णो इति । बहुऽधा । वीर्याणि । त्वम् । न: । पृणीहि । पशुऽभि: । विश्वऽरूपै: । सुऽधायाम् । मा । धेहि । परमे । विऽओमन् ॥१.८॥
अथर्ववेद - काण्ड » 17; सूक्त » 1; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(त्वा) त्वाम् (आ दभन्) दम्भु हिंसायांमाङि लुङि रूपम्। न हिंसितवन्तस्ते विघ्नाः (सलिले) अन्तरिक्षे (अप्सु) आपोव्यापिकास्तन्मात्राः-दयानन्दभाष्ये-यजु० २७।२५। व्यापिकासु तन्मात्रासु (अन्तः)मध्ये (ये) विघ्नाः (पाशिनः) बन्धनवन्तः (उपतिष्ठन्ति) उपस्थिता भवन्ति (अत्र)संसारे (हित्वा) त्यक्त्वा (अशस्तिम्) अपकीर्तिम् (दिवम्) व्यवहारम् (आ अरुक्षः)आरूढवानसि (एताम्) पूर्वोक्ताम् (सः) स त्वम् (नः) अस्मान् (मृड) सुखय (सुमतौ)अनुग्रहबुद्धौ (ते) तव (स्याम) भवेम। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें