Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 17/ सूक्त 1/ मन्त्र 13
    सूक्त - आदित्य देवता - त्र्यवसाना सप्तदा प्रकृति छन्दः - ब्रह्मा सूक्तम् - अभ्युदयार्थप्रार्थना सूक्त

    या त॑ इन्द्रत॒नूर॒प्सु या पृ॑थि॒व्यां यान्तर॒ग्नौ या त॑ इन्द्र॒ पव॑माने स्व॒र्विदि॑।यये॑न्द्र त॒न्वा॒न्तरि॑क्षं व्यापि॒थ तया॑ न इन्द्र त॒न्वा॒ शर्म॒ यच्छ॒तवेद्वि॑ष्णो बहु॒धावी॒र्याणि। त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैःसु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥

    स्वर सहित पद पाठ

    या । ते॒ । इ॒न्द्र॒ । त॒नू: । अ॒प्ऽसु । या । पृ॒थि॒व्याम् । या । अ॒न्त: । अ॒ग्नौ । या । ते॒ । इ॒न्द्र॒ । पव॑माने । स्व॒:ऽविदि॑ । यया॑ । इ॒न्द्र॒ । त॒न्वा᳡ । अ॒न्तरि॑क्षम् । वि॒ऽआ॒पि॒थ । तया॑ । न॒: । इ॒न्द्र॒ । त॒न्वा᳡ । शर्म॑ । य॒च्छ॒ । तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्या᳡णि । त्वम् । न॒: । पृ॒णी॒हि॒ । प॒शुऽभि॑: । वि॒श्वऽरू॑पै: । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे । विऽओ॑मन् ॥१.१३॥


    स्वर रहित मन्त्र

    या त इन्द्रतनूरप्सु या पृथिव्यां यान्तरग्नौ या त इन्द्र पवमाने स्वर्विदि।ययेन्द्र तन्वान्तरिक्षं व्यापिथ तया न इन्द्र तन्वा शर्म यच्छतवेद्विष्णो बहुधावीर्याणि। त्वं नः पृणीहि पशुभिर्विश्वरूपैःसुधायां मा धेहि परमे व्योमन् ॥

    स्वर रहित पद पाठ

    या । ते । इन्द्र । तनू: । अप्ऽसु । या । पृथिव्याम् । या । अन्त: । अग्नौ । या । ते । इन्द्र । पवमाने । स्व:ऽविदि । यया । इन्द्र । तन्वा । अन्तरिक्षम् । विऽआपिथ । तया । न: । इन्द्र । तन्वा । शर्म । यच्छ । तव । इत् । विष्णो इति । बहुऽधा । वीर्याणि । त्वम् । न: । पृणीहि । पशुऽभि: । विश्वऽरूपै: । सुऽधायाम् । मा । धेहि । परमे । विऽओमन् ॥१.१३॥

    अथर्ववेद - काण्ड » 17; सूक्त » 1; मन्त्र » 13

    टिप्पणीः - १३−(या) (ते) तव (तनूः) कृषिचमितनि–०। उ०१।८०। तन उपकारे-ऊ प्रत्ययः। उपकारशक्तिः (अप्सु) उदकेषु (पृथिव्याम्) भूमौ (अन्तः) मध्ये (अग्नौ) (पवमाने) संशोधके पवने (स्वर्विदि) सुखप्रापके (यया) (तन्वा) उपकारशक्त्या (अन्तरिक्षम्) आकाशम् (व्यापिथ) त्वं व्याप्तवानसि (तया) (नः) अस्मभ्यम् (तन्वा) उपकारशक्त्या (शर्म) सुखम् (यच्छ) देहि। अन्यत् पूर्ववत्॥

    इस भाष्य को एडिट करें
    Top