Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 17/ सूक्त 1/ मन्त्र 14
    सूक्त - आदित्य देवता - पञ्चपदा शक्वरी छन्दः - ब्रह्मा सूक्तम् - अभ्युदयार्थप्रार्थना सूक्त

    त्वामि॑न्द्र॒ब्रह्म॑णा व॒र्धय॑न्तः स॒त्त्रं नि षे॑दु॒रृष॑यो॒ नाध॑माना॒स्तवेद्वि॑ष्णोबहु॒धावी॒र्याणि। त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहिपर॒मे व्योमन् ॥

    स्वर सहित पद पाठ

    त्वाम् । इ॒न्द्र॒ । ब्रह्म॑णा । व॒र्धय॑न्त: । स॒त्त्रम् । नि । से॒दु॒: । ऋष॑य: । नाध॑माना: । तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्या᳡णि । त्वम् । न॒: । पृ॒णी॒हि॒ । प॒शुऽभि॑: । वि॒श्वऽरू॑पै: । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे । विऽओ॒मन् ॥१.१४॥


    स्वर रहित मन्त्र

    त्वामिन्द्रब्रह्मणा वर्धयन्तः सत्त्रं नि षेदुरृषयो नाधमानास्तवेद्विष्णोबहुधावीर्याणि। त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहिपरमे व्योमन् ॥

    स्वर रहित पद पाठ

    त्वाम् । इन्द्र । ब्रह्मणा । वर्धयन्त: । सत्त्रम् । नि । सेदु: । ऋषय: । नाधमाना: । तव । इत् । विष्णो इति । बहुऽधा । वीर्याणि । त्वम् । न: । पृणीहि । पशुऽभि: । विश्वऽरूपै: । सुऽधायाम् । मा । धेहि । परमे । विऽओमन् ॥१.१४॥

    अथर्ववेद - काण्ड » 17; सूक्त » 1; मन्त्र » 14

    टिप्पणीः - १४−(त्वाम्) परमात्मानम् (इन्द्र) (ब्रह्मणा) प्रवृद्धेन वेदज्ञानेन (वर्धयन्तः) उन्नयन्तः। स्तुवन्त इत्यर्थः (सत्त्रम्) षद्लृ विशरणगत्यवसादनेषु-त्रल्। स्थानम्। यज्ञम् (निषेदुः) निषण्णानियमेन स्थिता बभूवुः (ऋषयः) वेदवेत्तारः (नाधमानाः) मोक्षं याचमानाः। अन्यत्पूर्ववत् ॥

    इस भाष्य को एडिट करें
    Top