अथर्ववेद - काण्ड 17/ सूक्त 1/ मन्त्र 21
सूक्त - आदित्य
देवता - चतुष्पदा उपरिष्टात् बृहती
छन्दः - ब्रह्मा
सूक्तम् - अभ्युदयार्थप्रार्थना सूक्त
रुचि॑रसि रो॒चोऽसि॑। स यथा॒ त्वं रुच्या॑ रो॒चोऽस्ये॒वाहं प॒शुभि॑श्च ब्राह्मणवर्च॒सेन॑ चरुचिषीय ॥
स्वर सहित पद पाठरुचि॑: । अ॒सि॒ । रो॒च: । अ॒सि॒ । स: । यथा॑ । त्वम् । रुच्या॑ । रो॒च: । असि॑ । ए॒व । अ॒हम् । प॒शुऽभि॑: । च॒ । ब्रा॒ह्म॒ण॒ऽव॒र्च॒सेन॑ । च॒ । रु॒चि॒षी॒य॒ ॥२.२१॥
स्वर रहित मन्त्र
रुचिरसि रोचोऽसि। स यथा त्वं रुच्या रोचोऽस्येवाहं पशुभिश्च ब्राह्मणवर्चसेन चरुचिषीय ॥
स्वर रहित पद पाठरुचि: । असि । रोच: । असि । स: । यथा । त्वम् । रुच्या । रोच: । असि । एव । अहम् । पशुऽभि: । च । ब्राह्मणऽवर्चसेन । च । रुचिषीय ॥२.२१॥
अथर्ववेद - काण्ड » 17; सूक्त » 1; मन्त्र » 21
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २१−(रुचिः) रुचदीप्तावभिप्रीतौ च-कि। प्रीतिस्वरूपः (असि) (रोचः) रोचतेः पचाद्यच्।प्रीतिकारकः (सः) तादृशः (यथा) (त्वम्) (रुच्या) प्रीत्या (रोचः) प्रीतिकारकः (असि) (एव) तथा (अहम्) उपासकः (पशुभिः) प्राणिभिः (च) (ब्राह्मणवर्चसेन)ब्रह्महस्तिभ्यां वर्चसः। पा० ५।४।७८। इति ब्राह्मणशब्दात् परस्यापि वर्चसःसमासान्तोऽच्। ब्रह्मज्ञानितुल्यतेजसा (च) (रुचिषीय) रुचिमान् भवेयम् ॥
इस भाष्य को एडिट करें