Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 17/ सूक्त 1/ मन्त्र 28
    सूक्त - आदित्य देवता - त्रिष्टुप् छन्दः - ब्रह्मा सूक्तम् - अभ्युदयार्थप्रार्थना सूक्त

    परि॑वृतो॒ब्रह्म॑णा॒ वर्म॑णा॒हं क॑श्यपस्य॒ ज्योति॑षा॒ वर्च॑सा च। मा मा॒प्राप॒न्निष॑वो॒ दैव्या॒ या मा मानु॑षी॒रव॑सृष्टाः व॒धाय॑ ॥

    स्वर सहित पद पाठ

    परि॑ऽवृत: । ब्रह्म॑णा । वर्म॑णा । अ॒हम् । क॒श्यप॑स्य । ज्योति॑षा । वर्च॑सा । च॒ । मा । मा॒ । प्र । आ॒प॒न् । इष॑व: । दैव्या॑: । या: । मा । मानु॑षी: । अव॑ऽसृष्टा: । व॒धाय॑ ॥१.२८॥


    स्वर रहित मन्त्र

    परिवृतोब्रह्मणा वर्मणाहं कश्यपस्य ज्योतिषा वर्चसा च। मा माप्रापन्निषवो दैव्या या मा मानुषीरवसृष्टाः वधाय ॥

    स्वर रहित पद पाठ

    परिऽवृत: । ब्रह्मणा । वर्मणा । अहम् । कश्यपस्य । ज्योतिषा । वर्चसा । च । मा । मा । प्र । आपन् । इषव: । दैव्या: । या: । मा । मानुषी: । अवऽसृष्टा: । वधाय ॥१.२८॥

    अथर्ववेद - काण्ड » 17; सूक्त » 1; मन्त्र » 28

    टिप्पणीः - २८−(परिवृतः) परिवेष्टितः। अन्यत् पूर्ववत्-म० २७ (मा) माम् (मा प्रापन्) मा प्राप्नुयुः (इषवः) बाणाः (दैव्याः) देव-यञ्। आधिदैविक्यः (याः) (मा) निषेधे (मानुषीः) मानुष्यः। अधिभौतिक्य इत्यर्थः (अवसृष्टाः) प्रेरिताः (वधाय) हननाय ॥

    इस भाष्य को एडिट करें
    Top