Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 17/ सूक्त 1/ मन्त्र 7
    सूक्त - आदित्य देवता - त्र्यवसाना सप्तदात्यष्टि छन्दः - ब्रह्मा सूक्तम् - अभ्युदयार्थप्रार्थना सूक्त

    उदि॒ह्युदि॑हिसूर्य॒ वर्च॑सा मा॒भ्युदि॑हि।यांश्च॒ पश्या॑मि॒ यांश्च॒ न तेषु॑ मा सुम॒तिंकृ॑धि॒ तवेद्वि॑ष्णो बहु॒धा वी॒र्याणि। त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैःसु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥

    स्वर सहित पद पाठ

    उत् । इ॒हि॒ । उत् । इ॒हि॒ । सू॒र्य॒ । वर्च॑सा । मा॒ । अ॒भि॒ऽउदि॑हि । यान् । च॒ । पश्या॑मि । यान्। च॒ । न । तेषु॑ । मा॒ ।सु॒ऽम॒तिम् । कृ॒धि॒ । तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्या᳡णि । त्वम् । न॒: । पृ॒णी॒हि॒ । प॒शुऽभि॑: । वि॒श्वऽरू॑पै: । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे । विऽओ॑मन् ॥१.७॥


    स्वर रहित मन्त्र

    उदिह्युदिहिसूर्य वर्चसा माभ्युदिहि।यांश्च पश्यामि यांश्च न तेषु मा सुमतिंकृधि तवेद्विष्णो बहुधा वीर्याणि। त्वं नः पृणीहि पशुभिर्विश्वरूपैःसुधायां मा धेहि परमे व्योमन् ॥

    स्वर रहित पद पाठ

    उत् । इहि । उत् । इहि । सूर्य । वर्चसा । मा । अभिऽउदिहि । यान् । च । पश्यामि । यान्। च । न । तेषु । मा ।सुऽमतिम् । कृधि । तव । इत् । विष्णो इति । बहुऽधा । वीर्याणि । त्वम् । न: । पृणीहि । पशुऽभि: । विश्वऽरूपै: । सुऽधायाम् । मा । धेहि । परमे । विऽओमन् ॥१.७॥

    अथर्ववेद - काण्ड » 17; सूक्त » 1; मन्त्र » 7

    टिप्पणीः - ७−(यान्) समीपस्थान् प्राणिनः (च) (पश्यामि) चक्षुषा विषयीकरोमि (यान्)दूरस्थान् प्राणिनः (च) (न) निषेधे (मा) माम् (सुमतिम्) अनुग्रहबुद्धियुक्तम् (कृधि) कुरु। अन्यत् पूर्ववत्-म० ६ ॥

    इस भाष्य को एडिट करें
    Top