अथर्ववेद - काण्ड 17/ सूक्त 1/ मन्त्र 18
सूक्त - आदित्य
देवता - त्र्यवसाना सप्तपदा भुरिक् अष्टि
छन्दः - ब्रह्मा
सूक्तम् - अभ्युदयार्थप्रार्थना सूक्त
त्वमिन्द्र॒स्त्वं म॑हे॒न्द्रस्त्वं लो॒कस्त्वं प्र॒जाप॑तिः। तुभ्यं॑ य॒ज्ञो विता॑यते॒ तुभ्यं॑ जुह्वति॒ जुह्व॑त॒स्तवेद्वि॑ष्णो बहु॒धावी॒र्याणि। त्वं नः॑पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥
स्वर सहित पद पाठत्वम् । इन्द्र॑: । त्वम् । म॒हा॒ऽइ॒न्द्र: । त्वम् । लो॒क: । त्वम् । प्र॒जाऽप॑ति: । तुभ्य॑म् । य॒ज्ञ: । वि । ता॒य॒ते॒ । तुभ्य॑म् । जु॒ह्व॒ति॒ । जुह्व॑त: । तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्या᳡णि । त्वम् । न॒: । पृ॒णी॒हि॒ । प॒शुऽभि॑: । वि॒श्वऽरू॑पै:। सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे । विऽओ॑मन् ॥१.१८॥
स्वर रहित मन्त्र
त्वमिन्द्रस्त्वं महेन्द्रस्त्वं लोकस्त्वं प्रजापतिः। तुभ्यं यज्ञो वितायते तुभ्यं जुह्वति जुह्वतस्तवेद्विष्णो बहुधावीर्याणि। त्वं नःपृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥
स्वर रहित पद पाठत्वम् । इन्द्र: । त्वम् । महाऽइन्द्र: । त्वम् । लोक: । त्वम् । प्रजाऽपति: । तुभ्यम् । यज्ञ: । वि । तायते । तुभ्यम् । जुह्वति । जुह्वत: । तव । इत् । विष्णो इति । बहुऽधा । वीर्याणि । त्वम् । न: । पृणीहि । पशुऽभि: । विश्वऽरूपै:। सुऽधायाम् । मा । धेहि । परमे । विऽओमन् ॥१.१८॥
अथर्ववेद - काण्ड » 17; सूक्त » 1; मन्त्र » 18
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १८−(त्वम्) (इन्द्रः) परमैश्वर्यवान् (महेन्द्रः) महत्सु परमैश्वर्यवान् (लोकः) अर्शआद्यच्। लोकपतिः (प्रजापतिः) प्राणिनां रक्षकः (तुभ्यम्) तवाज्ञापालनाय (यज्ञः) श्रेष्ठव्यवहारः (वि) विविधम् (तायते) विस्तार्यते (जुह्वति) होमंहवनदानादिकं कुर्वन्ति (जुह्वतः) होमं हवनदानादिकं कुर्वन्तः। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें