Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 17/ सूक्त 1/ मन्त्र 11
    सूक्त - आदित्य देवता - त्र्यवसाना सप्तदातिधृति छन्दः - ब्रह्मा सूक्तम् - अभ्युदयार्थप्रार्थना सूक्त

    त्वमि॑न्द्रासिविश्व॒जित्स॑र्व॒वित्पु॑रुहू॒तस्त्वमि॑न्द्र। त्वमि॑न्द्रे॒मं सु॒हवं॒स्तोम॒मेर॑यस्व॒ स नो॑ मृड सुम॒तौ ते॑ स्याम॒ तवेद्वि॑ष्णो बहु॒धावी॒र्याणि।त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥

    स्वर सहित पद पाठ

    त्वम् । इ॒न्द्र॒ । अ॒सि॒ । वि॒श्व॒ऽजित् । स॒र्व॒ऽजित् । पु॒रु॒ऽहू॒त: । त्वम् । इ॒न्द्र॒ । त्वम् । इ॒न्द्र॒ । इ॒मम् । सु॒ऽहव॑म् । स्तोम॑म् । आ । ई॒र॒य॒स्व॒ । स: । न॒: । मृ॒ड॒ । सु॒ऽम॒तौ । ते॒ । स्या॒म॒ । तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्या᳡णि । त्वम् । न॒: । पृ॒णी॒हि॒ । प॒शुऽभि॑: । वि॒श्वऽरू॑पै: । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे । विऽओ॑मन् ॥१.११॥


    स्वर रहित मन्त्र

    त्वमिन्द्रासिविश्वजित्सर्ववित्पुरुहूतस्त्वमिन्द्र। त्वमिन्द्रेमं सुहवंस्तोममेरयस्व स नो मृड सुमतौ ते स्याम तवेद्विष्णो बहुधावीर्याणि।त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥

    स्वर रहित पद पाठ

    त्वम् । इन्द्र । असि । विश्वऽजित् । सर्वऽजित् । पुरुऽहूत: । त्वम् । इन्द्र । त्वम् । इन्द्र । इमम् । सुऽहवम् । स्तोमम् । आ । ईरयस्व । स: । न: । मृड । सुऽमतौ । ते । स्याम । तव । इत् । विष्णो इति । बहुऽधा । वीर्याणि । त्वम् । न: । पृणीहि । पशुऽभि: । विश्वऽरूपै: । सुऽधायाम् । मा । धेहि । परमे । विऽओमन् ॥१.११॥

    अथर्ववेद - काण्ड » 17; सूक्त » 1; मन्त्र » 11

    टिप्पणीः - ११−(त्वम्) (इन्द्र) (असि) (विश्वजित्) सर्वस्यजेता। वशीकर्ता (सर्ववित्) सर्वज्ञः (पुरुहूतः) बहुप्रकारेणाहूतः (इमम्)क्रियमाणम् (सुहवम्) शोभनाह्वानयुक्तम् (स्तोमम्) स्तवम् (आ) समन्तात् (ईरयस्व)प्राप्नुहि। अन्यत् पूर्ववत्-म० ८ ॥

    इस भाष्य को एडिट करें
    Top