अथर्ववेद - काण्ड 17/ सूक्त 1/ मन्त्र 26
सूक्त - आदित्य
देवता - अनुष्टुप्
छन्दः - ब्रह्मा
सूक्तम् - अभ्युदयार्थप्रार्थना सूक्त
सू॑र्यनावमारुक्षः श॒तारि॑त्रां स्व॒स्तये॑। रात्रिं॒ मात्य॑पीप॒रोऽहः॑ स॒त्राति॑पारय ॥
स्वर सहित पद पाठसूर्य॑ । नाव॑म् । आ । अ॒रु॒क्ष॒: । श॒त॒ऽअरि॑त्राम् । स्व॒स्तये॑ । रात्रि॑म् । मा॒ । अति॑ । अ॒पी॒प॒र॒: । अह॑: । स॒त्रा । अति॑ । पा॒र॒य॒ ॥१.२६॥
स्वर रहित मन्त्र
सूर्यनावमारुक्षः शतारित्रां स्वस्तये। रात्रिं मात्यपीपरोऽहः सत्रातिपारय ॥
स्वर रहित पद पाठसूर्य । नावम् । आ । अरुक्ष: । शतऽअरित्राम् । स्वस्तये । रात्रिम् । मा । अति । अपीपर: । अह: । सत्रा । अति । पारय ॥१.२६॥
अथर्ववेद - काण्ड » 17; सूक्त » 1; मन्त्र » 26
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २६−(सूर्य) हे सर्वप्रेरक जगदीश्वर (रात्रिम्) रात्रिकर्त्तव्यम् (अहः) दिनकर्त्तव्यम्। अन्यत् पूर्ववत्-म० २५॥
इस भाष्य को एडिट करें