Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 17/ सूक्त 1/ मन्त्र 19
    सूक्त - आदित्य देवता - त्र्यवसाना सप्तदात्यष्टि छन्दः - ब्रह्मा सूक्तम् - अभ्युदयार्थप्रार्थना सूक्त

    अस॑ति॒सत्प्रति॑ष्ठितं स॒ति भू॒तं प्रति॑ष्ठितम्। भू॒तं ह॒ भव्य॒ आहि॑तं॒ भव्यं॑भू॒ते प्रति॑ष्ठितं॒ तवेद्वि॑ष्णो बहु॒धावी॒र्याणि। त्वं नः॑ पृणीहिप॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥

    स्वर सहित पद पाठ

    अस॑ति । सत् । प्रति॑ऽस्थितम् । स॒ति । भू॒तम् । प्रति॑ऽस्थितम् । भू॒तम् । ह॒ । भव्ये॑ । आऽहि॑तम् । भव्य॑म् । भू॒ते । प्रति॑ऽस्थितम् । तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्या᳡णि । त्वम् । न॒: । पृ॒णी॒हि॒ । प॒शुऽभि॑: । वि॒श्वऽरू॑पै: । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे । विऽओ॑मन् ॥१.१९॥


    स्वर रहित मन्त्र

    असतिसत्प्रतिष्ठितं सति भूतं प्रतिष्ठितम्। भूतं ह भव्य आहितं भव्यंभूते प्रतिष्ठितं तवेद्विष्णो बहुधावीर्याणि। त्वं नः पृणीहिपशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥

    स्वर रहित पद पाठ

    असति । सत् । प्रतिऽस्थितम् । सति । भूतम् । प्रतिऽस्थितम् । भूतम् । ह । भव्ये । आऽहितम् । भव्यम् । भूते । प्रतिऽस्थितम् । तव । इत् । विष्णो इति । बहुऽधा । वीर्याणि । त्वम् । न: । पृणीहि । पशुऽभि: । विश्वऽरूपै: । सुऽधायाम् । मा । धेहि । परमे । विऽओमन् ॥१.१९॥

    अथर्ववेद - काण्ड » 17; सूक्त » 1; मन्त्र » 19

    टिप्पणीः - १९−(असति) अस सत्तायाम्-शतृ। अनित्ये कार्ये (सत्)नित्यमादिकारणं परब्रह्म-ओंतत्सदिति निर्देशात् (प्रतिष्ठितम्) प्रतीत्यास्थितम् (सति) नित्ये ब्रह्मणि (भूतम्) सत्तायुक्तं जगत्। पृथिव्यादिभूतपञ्चकम्(प्रतिष्ठितम्) (भूतम्) अतीतम् (ह) निश्चयेन (भव्ये) भविष्यति (आहितम्)स्थापितम् (भव्यम्) भविष्यत् (भूते) अतीते। अन्यत् पूर्ववत् ॥

    इस भाष्य को एडिट करें
    Top