अथर्ववेद - काण्ड 17/ सूक्त 1/ मन्त्र 15
सूक्त - आदित्य
देवता - पञ्चपदा शक्वरी
छन्दः - ब्रह्मा
सूक्तम् - अभ्युदयार्थप्रार्थना सूक्त
त्वं तृ॒तं त्वंपर्ये॒ष्युत्सं॑ स॒हस्र॑धारं वि॒दथं॑ स्व॒र्विदं॒ तवेद्वि॑ष्णो बहु॒धावी॒र्याणि। त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मेव्योमन् ॥
स्वर सहित पद पाठत्वम् । तृ॒तम् । त्वम् । परि॑ । ए॒षि॒ । उत्स॑म् । स॒हस्र॑ऽधारम् । वि॒दथ॑म् । स्व॒:ऽविद॑म् । तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्या᳡णि । त्वम् । न॒: । पृ॒णी॒हि॒ । प॒शुऽभि॑: । वि॒श्वऽरू॑पै: । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे । विऽओ॑मन् ॥१.१५॥
स्वर रहित मन्त्र
त्वं तृतं त्वंपर्येष्युत्सं सहस्रधारं विदथं स्वर्विदं तवेद्विष्णो बहुधावीर्याणि। त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमेव्योमन् ॥
स्वर रहित पद पाठत्वम् । तृतम् । त्वम् । परि । एषि । उत्सम् । सहस्रऽधारम् । विदथम् । स्व:ऽविदम् । तव । इत् । विष्णो इति । बहुऽधा । वीर्याणि । त्वम् । न: । पृणीहि । पशुऽभि: । विश्वऽरूपै: । सुऽधायाम् । मा । धेहि । परमे । विऽओमन् ॥१.१५॥
अथर्ववेद - काण्ड » 17; सूक्त » 1; मन्त्र » 15
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १५−(त्वम्) (तृतम्) सम्प्रसारणं छान्दसम्। अ०५।१।१। त्रि+तनु विस्तारे-ड। त्रिषु कालेषु विस्तीर्णं जगत् (त्वम्) (परि) सर्वतः (एषि) व्याप्नोषि (उत्सम्) उन्दिगुधिकुषिभ्यश्च। उ० ३।६८। उन्दी क्लेदने-सप्रत्ययः। जलस्रवणस्थानम् (सहस्रधारम्) बहुधारायुक्तम् (विदथम्) विज्ञानसमाजम् (स्वर्विदम्) सुखस्य लम्भयितारम्। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें