Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 17/ सूक्त 1/ मन्त्र 9
    सूक्त - आदित्य देवता - पञ्चपदा शक्वरी छन्दः - ब्रह्मा सूक्तम् - अभ्युदयार्थप्रार्थना सूक्त

    त्वं न॑ इन्द्रमह॒ते सौभ॑गा॒याद॑ब्धेभिः॒ परि॑ पाह्य॒क्तुभि॒स्तवेद्वि॑ष्णो बहु॒धा वी॒र्याणि। त्वं नः॑ पृणीहि प॒शुभि॑र्विश्वरूपैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥

    स्वर सहित पद पाठ

    त्वम् । न॒: । इ॒न्द्र॒:। म॒ह॒ते । सौभ॑गाय । अद॑ब्धेभि: । परि॑ । पा॒हि॒ । अ॒क्तुऽभि॑: । तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्या᳡णि । त्वम् । न॒: । पृ॒णी॒हि॒ । प॒शुऽभि॑: । वि॒श्वऽरू॑पै: । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे । विऽओम॑न् ॥१.९॥


    स्वर रहित मन्त्र

    त्वं न इन्द्रमहते सौभगायादब्धेभिः परि पाह्यक्तुभिस्तवेद्विष्णो बहुधा वीर्याणि। त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥

    स्वर रहित पद पाठ

    त्वम् । न: । इन्द्र:। महते । सौभगाय । अदब्धेभि: । परि । पाहि । अक्तुऽभि: । तव । इत् । विष्णो इति । बहुऽधा । वीर्याणि । त्वम् । न: । पृणीहि । पशुऽभि: । विश्वऽरूपै: । सुऽधायाम् । मा । धेहि । परमे । विऽओमन् ॥१.९॥

    अथर्ववेद - काण्ड » 17; सूक्त » 1; मन्त्र » 9

    टिप्पणीः - ९−(त्वम्) (नः) अस्मान् (महते) प्रवृद्धाय (सौभगाय) महैश्वर्यप्राप्तये (अदब्धेभिः) अहिंसितैः। अखण्डितैः (परि) सर्वतः (पाहि) रक्ष (अक्तुभिः) पःकिच्च। उ० १।७१। अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु-तुन्। व्यञ्जकैः प्रकाशैःकिरणैः। अन्यत् पूर्ववत् ॥

    इस भाष्य को एडिट करें
    Top