अथर्ववेद - काण्ड 17/ सूक्त 1/ मन्त्र 12
सूक्त - आदित्य
देवता - त्र्यवसाना सप्तदातिकृति
छन्दः - ब्रह्मा
सूक्तम् - अभ्युदयार्थप्रार्थना सूक्त
अद॑ब्धो दि॒विपृ॑थि॒व्यामु॒तासि॒ न त॑ आपुर्महि॒मान॑म॒न्तरि॑क्षे। अ॑दब्धेन॒ ब्रह्म॑णावावृधा॒नः स त्वं न॑ इन्द्र दि॒वि षञ्च्छर्म॑ यच्छ॒ तवेद्वि॑ष्णो बहु॒धावी॒र्याणि। त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥
स्वर सहित पद पाठअद॑ब्ध: । दि॒वि । पृ॒थि॒व्याम् । उ॒त । अ॒सि॒ । न । ते॒ । आ॒पु:। म॒हि॒मान॑म् । अ॒न्तरि॑क्षे । अद॑ब्धेन । ब्रह्म॑णा । व॒वृ॒धा॒न: । स: । त्वम् । न॒: । इ॒न्द्र॒ । दि॒वि । सन् । शर्म॑ । य॒च्छ॒ । तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्या᳡णि । त्वम् । न॒: । पृ॒णी॒हि॒ । प॒शुऽभि॑: । वि॒श्वऽरू॑पै: । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे । विऽओ॑मन्॥१.१२॥
स्वर रहित मन्त्र
अदब्धो दिविपृथिव्यामुतासि न त आपुर्महिमानमन्तरिक्षे। अदब्धेन ब्रह्मणावावृधानः स त्वं न इन्द्र दिवि षञ्च्छर्म यच्छ तवेद्विष्णो बहुधावीर्याणि। त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥
स्वर रहित पद पाठअदब्ध: । दिवि । पृथिव्याम् । उत । असि । न । ते । आपु:। महिमानम् । अन्तरिक्षे । अदब्धेन । ब्रह्मणा । ववृधान: । स: । त्वम् । न: । इन्द्र । दिवि । सन् । शर्म । यच्छ । तव । इत् । विष्णो इति । बहुऽधा । वीर्याणि । त्वम् । न: । पृणीहि । पशुऽभि: । विश्वऽरूपै: । सुऽधायाम् । मा । धेहि । परमे । विऽओमन्॥१.१२॥
अथर्ववेद - काण्ड » 17; सूक्त » 1; मन्त्र » 12
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १२−(अदब्धः) अखण्डः (दिवि)सूर्ये। प्रकाशमानलोके (पृथिव्याम्) भूमौ। प्रकाशरहितलोके (उत) अपि (असि) (न)निषेधे (ते) तव (आपुः) प्राप्तवन्तस्ते लोका लोकिनश्च (महिमानम्) महत्त्वम् (अन्तरिक्षे) आकाशे (अदब्धे) अखण्डेन (ब्रह्मणा) प्रवृद्धेन वेदज्ञानेन (वावृधानः) भृशं वर्धमानः (सः) तादृशः (त्वम्) (नः) अस्मभ्यम् (इन्द्र) (दिवि)व्यवहारे (सन्) वर्तमानः (शर्म) सुखम् (यच्छ) देहि। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें