Loading...

1621 परिणाम मिले!

  • प्र णु त्यं विप्रमध्वरेषु साधुमग्निं होतारमीळते नमोभिः। आ यस्ततान रोदसी ऋतेन नित्यं मृजन्ति वाजिनं घृतेन ॥७॥ - Rigveda/5/1/7
  • प्र णो देवी सरस्वती वाजेभिर्वाजिनीवती। धीनामवित्र्यवतु ॥४॥ - Rigveda/6/61/4
  • प्र णो धन्वन्त्विन्दवो मदच्युतो धना वा येभिरर्वतो जुनीमसि । तिरो मर्तस्य कस्य चित्परिह्वृतिं वयं धनानि विश्वधा भरेमहि ॥ - Rigveda/9/79/2
  • प्र णो यच्छत्वर्यमा प्र भगः प्र बृहस्पतिः। प्र देवीः प्रोत सूनृता रयिं देवी दधातु मे ॥ - Atharvaveda/3/20/0/3
  • प्र णो वनिर्देवकृता दिवा नक्तं च कल्पताम्। अरातिमनुप्रेमो वयं नमो अस्त्वरातये ॥ - Atharvaveda/5/7/0/3
  • प्र त आशव: पवमान धीजवो मदा अर्षन्ति रघुजा इव त्मना । दिव्याः सुपर्णा मधुमन्त इन्दवो मदिन्तमास: परि कोशमासते ॥ - Rigveda/9/86/1
  • प्र त आश्विनीः पवमान धीजुवो दिव्या असृग्रन्पयसा धरीमणि । प्रान्तॠषय: स्थाविरीरसृक्षत ये त्वा मृजन्त्यृषिषाण वेधस: ॥ - Rigveda/9/86/4
  • प्र त आश्विनीः पवमान धेनवो दिव्या असृग्रन्पयसा धरीमणि । प्रान्तरिक्षात्स्थाविरीस्ते असृक्षत ये त्वा मृजन्त्यृषिषाण वेधसः ॥८८६॥ - Samveda/886
  • प्र त इन्द्र पूर्व्याणि प्र नूनं वीर्या वोचं प्रथमा कृतानि । सतीनमन्युरश्रथायो अद्रिं सुवेदनामकृणोर्ब्रह्मणे गाम् ॥ - Rigveda/10/112/8
  • प्र तं विवक्मि वक्म्यो य एषां मरुतां महिमा सत्यो अस्ति। सचा यदीं वृषमणा अहंयुः स्थिरा चिज्जनीर्वहते सुभागाः ॥ - Rigveda/1/167/7
  • प्र तत्ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि विद्वान् । तं त्वा गृणामि तवसमतव्यान्क्षयन्तमस्य रजसः पराके ॥ - Rigveda/7/100/5
  • प्र तत्ते अद्य शिपिविष्ट हव्यमर्यः शꣳसामि वयुनानि विद्वान् । तं त्वा गृणामि तवसमतव्यान्क्षयन्तमस्य रजसः पराके ॥१६२६॥ - Samveda/1626
  • प्र तत्ते अद्या करणं कृतं भूत्कुत्सं यदायुमतिथिग्वमस्मै। पुरू सहस्रा नि शिशा अभि क्षामुत्तूर्वयाणं धृषता निनेथ ॥१३॥ - Rigveda/6/18/13
  • प्र तद्दु:शीमे पृथवाने वेने प्र रामे वोचमसुरे मघवत्सु । ये युक्त्वाय पञ्च शतास्मयु पथा विश्राव्येषाम् ॥ - Rigveda/10/93/14
  • प्र तद्विष्णु स्तवते वीर्याणि मृगो न भीमः कुचरो गिरिष्ठाः। परावत आ जगम्यात्परस्याः ॥ - Atharvaveda/7/26/0/2
  • प्र तद्विष्णु स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ॥ - Yajurveda/5/20
  • प्र तद्विष्णु: स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः। यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ॥ - Rigveda/1/154/2
  • प्र तद्वोचेदमृतन्नु विद्वान्गन्धर्वो धाम विभृतङ्गुहा सत् । त्रीणि पदानि निहिता गुहास्य यस्तानि वेद स पितुः पितासत् ॥ - Yajurveda/32/9
  • प्र तद्वोचेदमृतस्य विद्वान् गन्धर्वो धाम परमं गुहा यत्। त्रीणि पदानि निहिता गुहास्य यस्तानि वेद स पितुष्पितासत् ॥ - Atharvaveda/2/1/0/2
  • प्र तद्वोचेयं भव्यायेन्दवे हव्यो न य इषवान्मन्म रेजति रक्षोहा मन्म रेजति। स्वयं सो अस्मदा निदो वधैरजेत दुर्मतिम्। अव स्रवेदघशंसोऽवतरमव क्षुद्रमिव स्रवेत् ॥ - Rigveda/1/129/6
  • प्र तमिन्द्र नशीमहि रयिं गोमन्तमश्विनम् । प्र ब्रह्म पूर्वचित्तये ॥ - Rigveda/8/6/9
  • प्र तव्यसीं नव्यसीं धीतिमग्नये वाचो मतिं सहसः सूनवे भरे। अपां नपाद्यो वसुभिः सह प्रियो होता पृथिव्यां न्यसीददृत्विय: ॥ - Rigveda/1/143/1
  • प्र तव्यसो नमउक्तिं तुरस्याहं पूष्ण उत वायोरदिक्षि। या राधसा चोदितारा मतीनां या वाजस्य द्रविणोदा उत त्मन् ॥९॥ - Rigveda/5/43/9
  • प्र ताँ अग्निर्बभसत्तिग्मजम्भस्तपिष्ठेन शोचिषा यः सुराधाः। प्र ये मिनन्ति वरुणस्य धाम प्रिया मित्रस्य चेततो ध्रुवाणि ॥४॥ - Rigveda/4/5/4
  • प्र तार्यायु: प्रतरं नवीय स्थातारेव क्रतुमता रथस्य । अध च्यवान उत्तवीत्यर्थं परातरं सु निॠतिर्जिहीताम् ॥ - Rigveda/10/59/1
  • प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष । अश्वं न त्वा वाजिनं मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति ॥५२३॥ - Samveda/523
  • प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष । अश्वं न त्वा वाजिनं मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति ॥६७७॥ - Samveda/677
  • प्र तु द्रव परि कोशं नि षीद नृभि: पुनानो अभि वाजमर्ष । अश्वं न त्वा वाजिनं मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति ॥ - Rigveda/9/87/1
  • प्र तुविद्युम्नस्य स्थविरस्य घृष्वेर्दिवो ररप्शे महिमा पृथिव्याः। नास्य शत्रुर्न प्रतिमानमस्ति न प्रतिष्ठिः पुरुमायस्य सह्योः ॥१२॥ - Rigveda/6/18/12
  • प्र ते अग्नयोऽग्निभ्यो वरं निः सुवीरासः शोशुचन्त द्युमन्तः। यत्रा नरः समासते सुजाताः ॥४॥ - Rigveda/7/1/4
  • प्र ते अग्ने हविष्मतीमियर्म्यच्छा सुद्युम्नां रातिनीं घृताचीम्। प्रदक्षिणिद्देवतातिमुराणः सं रातिभिर्वसुभिर्यज्ञमश्रेत्॥ - Rigveda/3/19/2
  • प्र ते अश्नोतु कुक्ष्योः प्रेन्द्र ब्रह्मणा शिरः । प्र बाहू शूर राधसा ॥७३९॥ - Samveda/739
  • प्र ते अश्नोतु कुक्ष्योः प्रेन्द्र ब्रह्मणा शिरः। प्र बाहू शूर राधसे॥ - Rigveda/3/51/12
  • प्र ते अस्या उषसः प्रापरस्या नृतौ स्याम नृतमस्य नृणाम्। अनु त्रिशोकः शतमावहन्नॄन्कुत्सेन रथो यो असत्ससवान् ॥ - Atharvaveda/20/76/0/2
  • प्र ते अस्या उषस: प्रापरस्या नृतौ स्याम नृतमस्य नृणाम् । अनु त्रिशोक: शतमावहन्नॄन्कुत्सेन रथो यो असत्ससवान् ॥ - Rigveda/10/29/2
  • प्र ते दिवो न वृष्टयो धारा यन्त्यसश्चत: । अभि शुक्रामुपस्तिरम् ॥ - Rigveda/9/62/28
  • प्र ते धारा अत्यण्वानि मेष्य: पुनानस्य संयतो यन्ति रंहयः । यद्गोभिरिन्दो चम्वो: समज्यस आ सुवानः सोम कलशेषु सीदसि ॥ - Rigveda/9/86/47
  • प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः । अच्छा वाजꣳ सहस्रिणम् ॥१७६१॥ - Samveda/1761
  • प्र ते धारा असश्चतो दिवो न यन्ति वृष्टय: । अच्छा वाजं सहस्रिणम् ॥ - Rigveda/9/57/1
  • प्र ते धारा मधुमतीरसृग्रन्वारं यत्पूतो अत्येष्यव्यम् । पवमान पवसे धाम गोनां जनयन्त्सूर्यमपिन्वो अर्कैः ॥५३४॥ - Samveda/534
  • प्र ते धारा मधुमतीरसृग्रन्वारान्यत्पूतो अत्येष्यव्यान् । पवमान पवसे धाम गोनां जज्ञानः सूर्यमपिन्वो अर्कैः ॥ - Rigveda/9/97/31
  • प्र ते नावं न समने वचस्युवं ब्रह्मणा यामि सवनेषु दाधृषिः। कुविन्नो अस्य वचसो निबोधिषदिन्द्रमुत्सं न वसुनः सिचामहे॥ - Rigveda/2/16/7
  • प्र ते पूर्वाणि करणानि विप्राविद्वाँ आह विदुषे करांसि। यथायथा वृष्ण्यानि स्वगूर्तापांसि राजन्नर्याविवेषीः ॥१०॥ - Rigveda/4/19/10
  • प्र ते पूर्वाणि करणानि वोचं प्र नूतना मघवन्या चकर्थ। शक्तीवो यद्विभरा रोदसी उभे जयन्नपो मनवे दानुचित्राः ॥६॥ - Rigveda/5/31/6
  • प्र ते बभ्रू विचक्षण शंसामि गोषणो नपात्। माभ्यां गा अनु शिश्रथः ॥२२॥ - Rigveda/4/32/22
  • प्र ते भिनद्मि मेहनं वर्त्रं वेशन्त्या इव। एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥ - Atharvaveda/1/3/0/7
  • प्र ते मदासो मदिरास आशवोऽसृक्षत रथ्यासो यथा पृथक् । धेनुर्न वत्सं पयसाभि वज्रिणमिन्द्रमिन्दवो मधुमन्त ऊर्मय: ॥ - Rigveda/9/86/2
  • प्र ते महे विदथे शंसिषं हरी प्र ते वन्वे वनुषो हर्यतं मदम् । घृतं न यो हरिभिश्चारु सेचत आ त्वा विशन्तु हरिवर्पसं गिर: ॥ - Rigveda/10/96/1
  • प्र ते महे विदथे शंसिषं हरी प्र ते वन्वे वनुषो हर्यतं मदम्। घृतं न यो हरिभिश्चारु सेचत आ त्वा विशन्तु हरिवर्पसं गिरः ॥ - Atharvaveda/20/30/0/1
  • प्र ते यक्षि प्र त इयर्मि मन्म भुवो यथा वन्द्यो नो हवेषु । धन्वन्निव प्रपा असि त्वमग्न इयक्षवे पूरवे प्रत्न राजन् ॥ - Rigveda/10/4/1
Top