अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 15
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
तं समा॑प्नोति जू॒तिभि॒स्ततो॒ नाप॑ चिकित्सति। तेना॒मृत॑स्य भ॒क्षं दे॒वानां॒ नाव॑ रुन्धते ॥
स्वर सहित पद पाठतम् । सम् । आ॒प्नो॒ति॒ । जू॒तिऽभि॑: । तत॑: । न । अप॑ । चि॒कि॒त्स॒ति॒ । तेन॑ । अ॒मृत॑स्य । भ॒क्षम् । दे॒वाना॑म् । न । अव॑ । रु॒न्ध॒ते॒ ॥2.१५॥
स्वर रहित मन्त्र
तं समाप्नोति जूतिभिस्ततो नाप चिकित्सति। तेनामृतस्य भक्षं देवानां नाव रुन्धते ॥
स्वर रहित पद पाठतम् । सम् । आप्नोति । जूतिऽभि: । तत: । न । अप । चिकित्सति । तेन । अमृतस्य । भक्षम् । देवानाम् । न । अव । रुन्धते ॥2.१५॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 15
विषय - रोहित, परमेश्वर और ज्ञानी।
भावार्थ -
वह योगी सूर्य के समान तेजस्वी आत्मा भी (जूतिभिः) अपने ही मानस ज्योतियों या ज्ञान के अति वेगों से (तम्) उस सुदूरवर्ती परब्रह्म मार्ग को (सम् आप्नोति) प्राप्त कर लेता है (ततः) तब वह (न अपचिकित्सति। उसे त्याग कर फिर कुमार्ग या संशय या भ्रम में नहीं जाता। (तेन) इसी कारण लोग (देवानां) विद्वान् लोगों के निमित्त (अमृतस्य) अन्न के (भक्षं) भोग को (न अवरुन्धते) नहीं रोकते।
टिप्पणी -
(द्वि०) ‘जिगित्सति’ (च०) ‘तेनामृतस्य भक्षगं देवानां नावरुन्धते’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। अध्यात्म रोहितादित्यो देवता। १, १२-१५, ३९-४१ अनुष्टुभः, २३, ८, ४३ जगत्यः, १० आस्तारपंक्तिः, ११ बृहतीगर्भा, १६, २४ आर्षी गायत्री, २५ ककुम्मती आस्तार पंक्तिः, २६ पुरोद्व्यति जागता भुरिक् जगती, २७ विराड़ जगती, २९ बार्हतगर्भाऽनुष्टुप, ३० पञ्चपदा उष्णिग्गर्भाऽति जगती, ३४ आर्षी पंक्तिः, ३७ पञ्चपदा विराड़गर्भा जगती, ४४, ४५ जगत्यौ [ ४४ चतुष्पदा पुरः शाक्वरा भुरिक् ४५ अति जागतगर्भा ]। षट्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें