अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 38
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - त्रिष्टुप्
सूक्तम् - अध्यात्म सूक्त
स॑हस्रा॒ह्ण्यं विय॑तावस्य प॒क्षौ हरे॑र्हं॒सस्य॒ पत॑तः स्व॒र्गम्। स दे॒वान्त्सर्वा॒नुर॑स्युप॒दद्य॑ सं॒पश्य॑न्याति॒ भुव॑नानि॒ विश्वा॑ ॥
स्वर सहित पद पाठस॒ह॒स्र॒ऽअ॒ह्न्यम् । विऽय॑तौ । अ॒स्य॒ । प॒क्षौ । हरे॑: । हं॒सस्य॑ । पत॑त: । स्व॒:ऽगम् । स: । दे॒वान् । सर्वा॑न् । उर॑सि । उ॒प॒ऽदद्य॑ । स॒म्ऽपश्य॑न् । या॒ति॒ । भुव॑नानि । विश्वा॑ ॥२.३८॥
स्वर रहित मन्त्र
सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम्। स देवान्त्सर्वानुरस्युपदद्य संपश्यन्याति भुवनानि विश्वा ॥
स्वर रहित पद पाठसहस्रऽअह्न्यम् । विऽयतौ । अस्य । पक्षौ । हरे: । हंसस्य । पतत: । स्व:ऽगम् । स: । देवान् । सर्वान् । उरसि । उपऽदद्य । सम्ऽपश्यन् । याति । भुवनानि । विश्वा ॥२.३८॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 38
विषय - रोहित, परमेश्वर और ज्ञानी।
भावार्थ -
(सहस्र-अह्न्यम्) हज़ारों दिनों या युगों में बीतने योग्य (स्वर्गम्) विस्तृत आकाश भाग में (पततः) जाते हुए सूर्य के समान (हरेः) अति पीतवर्ण एवं गतिशील, परम आत्मा के (पक्षौ) दोनों पक्ष, दोनों मार्ग, रात दिन (वियतौ) विशेष रूप से नियम बद्ध हैं। (सः) वह (सर्वान् देवान्) समस्त देवों, प्राणों को (उरसि) अपने छाती पर, अपने हृदय में (उपदद्य) धारण करके (विश्वा भुवनानि) समस्त लोकों को (सं पश्यन्) देखता हुआ (याति) विचरण करता है।
सहस्रयुगपर्मन्तमहर्यद् ब्रह्मणो विभुः।
रात्रियुगसहस्रान्तां तेहोरात्रविदो जनाः।
अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्य हरागमे।
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके॥ गी० ८। १७। १८॥
टिप्पणी -
(तृ०) ‘स विश्वान् देवान्’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। अध्यात्म रोहितादित्यो देवता। १, १२-१५, ३९-४१ अनुष्टुभः, २३, ८, ४३ जगत्यः, १० आस्तारपंक्तिः, ११ बृहतीगर्भा, १६, २४ आर्षी गायत्री, २५ ककुम्मती आस्तार पंक्तिः, २६ पुरोद्व्यति जागता भुरिक् जगती, २७ विराड़ जगती, २९ बार्हतगर्भाऽनुष्टुप, ३० पञ्चपदा उष्णिग्गर्भाऽति जगती, ३४ आर्षी पंक्तिः, ३७ पञ्चपदा विराड़गर्भा जगती, ४४, ४५ जगत्यौ [ ४४ चतुष्पदा पुरः शाक्वरा भुरिक् ४५ अति जागतगर्भा ]। षट्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें