Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 3
सूक्त - आत्मा
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
सोम॑स्य जा॒याप्र॑थ॒मं ग॑न्ध॒र्वस्तेऽप॑रः॒ पतिः॑। तृ॒तीयो॑ अ॒ग्निष्टे॒ पति॑स्तु॒रीय॑स्तेमनुष्य॒जाः ॥
स्वर सहित पद पाठसोम॑स्य । जा॒या । प्र॒थ॒मम् । ग॒न्ध॒र्व: । ते॒ । अप॑र: । पति॑: । तृ॒तीय॑: । अ॒ग्नि: । ते॒ । पति॑: । तु॒रीय॑: । ते॒ । म॒नु॒ष्य॒ऽजा: ॥२.३॥
स्वर रहित मन्त्र
सोमस्य जायाप्रथमं गन्धर्वस्तेऽपरः पतिः। तृतीयो अग्निष्टे पतिस्तुरीयस्तेमनुष्यजाः ॥
स्वर रहित पद पाठसोमस्य । जाया । प्रथमम् । गन्धर्व: । ते । अपर: । पति: । तृतीय: । अग्नि: । ते । पति: । तुरीय: । ते । मनुष्यऽजा: ॥२.३॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 3
विषय - पति पत्नी के कर्तव्यों का वर्णन।
भावार्थ -
(प्रथमम्) पहले (जाया) स्त्री (सोमस्य) सोम की होती है। हे जाये ! (ते) तेरा (अपरः) दूसरा (पतिः) पति (गन्धर्वः) गन्धर्व है। और (ते) तेरा (तृतीयः पतिः) तीसरा पति (अग्निः) अग्नि है। और (मनुष्यजाः) मनुष्यों से उत्पन्न पति (तुरीय) चौथे नम्बर पर हैं।
महर्षि दयानन्द के मत में—स्त्री का प्रथम पति ‘सोम’, दूसरा नियोगज ‘गन्धर्व’, तीसरा नियोगज ‘अग्नि’ और शेष सब चौथे से लेकर ११ , वें तक नियुक्तपति ‘मनुष्य’ नाम से कहाते हैं [ सत्यार्थ समु० ४ ]
याज्ञवल्क्यस्तु—सोमः शौचं ददावासां गन्धर्वश्व शुभां गिरम्।
पावकः सर्वमेध्यत्वम् मेध्या वै योषितो ह्यतः ॥
तत्र मिताक्षरा—परिणयनात् पूर्वं सोमगन्धर्ववह्नयः स्त्रीर्भुक्त्वा तासां शौचमधुरवचनसर्वमेध्यत्वानि दत्तवन्तः। तस्मात्स्त्रियः स्पर्शा लिङ्गनादिषु मेध्याः शुद्धाः स्मृताः।
वसिष्ठस्मृतिश्च—पूर्वं स्त्रियः सुरैर्भुक्ताः सोमगन्धर्ववह्निभिः।
गच्छन्ति मानुषान् पश्चात् नैता दुष्यन्ति धर्मतः॥
तासां सोमो ददच्छौचं गन्धर्वः शिक्षितां गिरम्।
अग्निश्च सर्वभक्षत्वं तस्मान्निष्कल्मषाः स्त्रियः॥ (३०। ५,६।)
आठ वर्ष तक सोम भोगता है, रजोदर्शन के पूर्व तक गन्धर्व और रजोदर्शन में अग्नि भोगता है। फलतः स्त्री शरीर में जल, वायु, अग्नि तीनों तत्वों के विशेष भोग को सोम, गन्धर्व और अग्नि देवों का भोग कहा है। नियोग पक्ष में—महर्षि दयानन्द का अभिप्राय भी स्पष्ट है।
टिप्पणी -
(प्र० द्वि०) ‘सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः’ इति ऋ०। तत्रैव सू० (च०) ‘तुरीयोहं मनुष्यजः’ इति पा० गृ० सू०।
ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। सूर्यः स्वयमात्मतया देवता। [ १० यक्ष्मनाशनः, ११ दम्पत्योः परिपन्थिनाशनः ], ५, ६, १२, ३१, ३७, ३९, ४० जगत्य:, [३७, ३६ भुरिक् त्रिष्टुभौ ], ९ व्यवसाना षट्पदा विराड् अत्यष्टिः, १३, १४, १७,१९, [ ३५, ३६, ३८ ], ४१,४२, ४९, ६१, ७०, ७४, ७५ त्रिष्टुभः, १५, ५१ भुरिजौ, २० पुरस्ताद् बृहती, २३, २४, २५, ३२ पुरोबृहती, २६ त्रिपदा विराड् नामगायत्री, ३३ विराड् आस्तारपंक्ति:, ३५ पुरोबृहती त्रिष्टुप् ४३ त्रिष्टुब्गर्भा पंक्तिः, ४४ प्रस्तारपंक्तिः, ४७ पथ्याबृहती, ४८ सतः पंक्तिः, ५० उपरिष्टाद् बृहती निचृत्, ५२ विराट् परोष्णिक्, ५९, ६०, ६२ पथ्यापंक्तिः, ६८ पुरोष्णिक्, ६९ त्र्यवसाना षट्पदा, अतिशक्वरी, ७१ बृहती, १-४, ७-११, १६, २१, २२, २७-३०, ३४, ४५, ४६, ५३-५८, ६३-६७, ७२, ७३ अनुष्टुभः। पञ्चसप्तत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें