Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 37
    सूक्त - आत्मा देवता - भुरिक् त्रिष्टुप् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    संपि॑तरा॒वृत्वि॑ये सृजेथां मा॒ता पि॒ता च॒ रेत॑सो भवाथः। मर्य॑ इव॒ योषा॒मधि॑रोहयैनां प्र॒जां कृ॑ण्वाथामि॒ह पु॑ष्यतं र॒यिम् ॥

    स्वर सहित पद पाठ

    सम् । पि॒त॒रौ॒ ‍। ऋत्वि॑ये॒ इति॑ । सृ॒जे॒था॒म् । मा॒ता । पि॒ता । च॒ । रेत॑स: । भ॒वा॒थ॒: ।मर्य॑:ऽइव । योषा॑म् । अधि॑ । रो॒ह॒य॒ । ए॒ना॒म् प्र॒ऽजाम् । कृ॒ण्वा॒था॒म् । इ॒ह । पु॒ष्य॒त॒म् । र॒यिम् ॥२.३७॥


    स्वर रहित मन्त्र

    संपितरावृत्विये सृजेथां माता पिता च रेतसो भवाथः। मर्य इव योषामधिरोहयैनां प्रजां कृण्वाथामिह पुष्यतं रयिम् ॥

    स्वर रहित पद पाठ

    सम् । पितरौ ‍। ऋत्विये इति । सृजेथाम् । माता । पिता । च । रेतस: । भवाथ: ।मर्य:ऽइव । योषाम् । अधि । रोहय । एनाम् प्रऽजाम् । कृण्वाथाम् । इह । पुष्यतम् । रयिम् ॥२.३७॥

    अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 37

    भावार्थ -
    हे (पितरौ) माता और पिताओ ! (ऋत्विये*) ऋतुकाल के अवसर पर तुम परस्पर (संसृजेथाम्) संगत हुआ करो, परस्पर मिला करो। (माता च पिता च) तुम माता पिता ही (रेतसः) अपने वीर्य से पुत्र रूप में (भवाथः) उत्पन्न हुआ करते हो। हे पुरुष ! (एनाम् योषाम्) इस अपनी पत्नी को (मर्य इव) मर्द के समान (अधि रोहय) अपने सेज पर चढ़ा। हे स्त्री पुरुषो ! (इह) इस लोक में (प्रजाम् कृण्वाथाम्) प्रजा को उत्पन्न करो और (रयिम् पुष्यतम्) वीर्य को पुष्ट किये रहो।

    ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। सूर्यः स्वयमात्मतया देवता। [ १० यक्ष्मनाशनः, ११ दम्पत्योः परिपन्थिनाशनः ], ५, ६, १२, ३१, ३७, ३९, ४० जगत्य:, [३७, ३६ भुरिक् त्रिष्टुभौ ], ९ व्यवसाना षट्पदा विराड् अत्यष्टिः, १३, १४, १७,१९, [ ३५, ३६, ३८ ], ४१,४२, ४९, ६१, ७०, ७४, ७५ त्रिष्टुभः, १५, ५१ भुरिजौ, २० पुरस्ताद् बृहती, २३, २४, २५, ३२ पुरोबृहती, २६ त्रिपदा विराड् नामगायत्री, ३३ विराड् आस्तारपंक्ति:, ३५ पुरोबृहती त्रिष्टुप् ४३ त्रिष्टुब्गर्भा पंक्तिः, ४४ प्रस्तारपंक्तिः, ४७ पथ्याबृहती, ४८ सतः पंक्तिः, ५० उपरिष्टाद् बृहती निचृत्, ५२ विराट् परोष्णिक्, ५९, ६०, ६२ पथ्यापंक्तिः, ६८ पुरोष्णिक्, ६९ त्र्यवसाना षट्पदा, अतिशक्वरी, ७१ बृहती, १-४, ७-११, १६, २१, २२, २७-३०, ३४, ४५, ४६, ५३-५८, ६३-६७, ७२, ७३ अनुष्टुभः। पञ्चसप्तत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top