Loading...

1924 परिणाम मिले!

  • सप्तर्चेभ्यः स्वाहा ॥ - Atharvaveda/19/23/0/4
  • सप्तर्षीन्वा इदं ब्रूमोऽपो देवीः प्रजापतिम्। पितॄन्यमश्रेष्ठान्ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥ - Atharvaveda/11/6/0/11
  • सप्तऽऋषयः प्रतिहिताः शरीरे सप्त रक्षन्ति सदमप्रमादम् । सप्तापः स्वपतो लोकमीयुस्तत्र जागृतोऽअस्वप्नजौ सत्रसदौ च देवौ ॥ - Yajurveda/34/55
  • सप्तानां सप्त ऋष्टय: सप्त द्युम्नान्येषाम् । सप्तो अधि श्रियो धिरे ॥ - Rigveda/8/28/5
  • सप्तापो देवीः सुरणा अमृक्ता याभि: सिन्धुमतर इन्द्र पूर्भित् । नवतिं स्रोत्या नव च स्रवन्तीर्देवेभ्यो गातुं मनुषे च विन्दः ॥ - Rigveda/10/104/8
  • सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि। ते धीतिभिर्मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः ॥ - Atharvaveda/9/10/0/17
  • सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि। ते धीतिभिर्मनसा ते विपश्चित: परिभुव: परि भवन्ति विश्वत: ॥ - Rigveda/1/164/36
  • सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः । देवा यद्यज्ञन्तन्वानाऽअबध्नन्पुरुषम्पशुम् ॥ - Yajurveda/31/15
  • सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः। देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुम् ॥ - Atharvaveda/19/6/0/15
  • सप्तास्यासन्परिधयस्त्रिः सप्त समिध: कृताः । देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुम् ॥ - Rigveda/10/90/15
  • सप्तिं मृजन्ति वेधसो गृणन्तः कारवो गिरा । ज्योतिर्जज्ञानमुक्थ्यम् ॥१७६६॥ - Samveda/1766
  • सप्तिं मृजन्ति वेधसो गृणन्त: कारवो गिरा । ज्योतिर्जज्ञानमुक्थ्यम् ॥ - Rigveda/9/29/2
  • सप्ती चिद्घा मदच्युता मिथुना वहतो रथम् । एवेद्धूर्वृष्ण उत्तरा ॥ - Rigveda/8/33/18
  • सबन्धुश्चासबन्धुश्च यो अस्माँ अभिदासति। तेषां सा वृक्षाणामिवाहं भूयासमुत्तमः ॥ - Atharvaveda/6/15/0/2
  • सबन्धुश्चासबन्धुश्च यो अस्माँ अभिदासति। सर्वं तं रन्धयासि मे यजमानाय सुन्वते ॥ - Atharvaveda/6/54/0/3
  • सबाधो यं जना इमे३ऽग्निं हव्येभिरीळते । जुह्वानासो यतस्रुचः ॥ - Rigveda/8/74/6
  • संभले मलंसादयित्वा कम्बले दुरितं वयम्। अभूम यज्ञियाः शुद्धाः प्र ण आयूंषितारिषत् ॥ - Atharvaveda/14/2/0/67
  • सभा च मा समितिश्चावतां प्रजापतेर्दुहितरौ संविदाने। येना संगच्छा उप मा स शिक्षाच्चारु वदानि पितरः संगतेषु ॥ - Atharvaveda/7/12/0/1
  • सभामेति कितवः पृच्छमानो जेष्यामीति तन्वा३ शूशुजानः । अक्षासो अस्य वि तिरन्ति कामं प्रतिदीव्ने दधत आ कृतानि ॥ - Rigveda/10/34/6
  • सभायाश्च वै ससमितेश्च सेनायाश्च सुरायाश्च प्रियं धाम भवति य एवं वेद ॥ - Atharvaveda/15/9/0/3
  • समं ज्योतिः सूर्येणाह्ना रात्री समावती। कृणोमि सत्यमूतयेऽरसाः सन्तु कृत्वरीः ॥ - Atharvaveda/4/18/0/1
  • समख्ये देव्या धिया सन्दक्षिणयोरुचक्षसा मा म आयुः प्र मोषीर्मा अहन्तव वीरँविदेय तव देवि सन्दृशि ॥ - Yajurveda/4/23
  • समग्नयः विदुरन्यो अन्यं य ओषधीः सचते यश्च सिन्धून्। यावन्तो देवा दिव्यातपन्ति हिरण्यं ज्योतिः पचतो बभूव ॥ - Atharvaveda/12/3/0/50
  • समग्निरग्निना गत सन्दैवेन सवित्रा सँ सूर्येणारोचिष्ट । स्वाहा समग्निस्तपसा गत सन्दैव्येन सवित्रा सँ सूर्येणारूरुचत ॥ - Yajurveda/37/15
  • समजैषमिमा अहं सपत्नीरभिभूवरी । यथाहमस्य वीरस्य विराजानि जनस्य च ॥ - Rigveda/10/159/6
  • समज्र्या पर्वत्या३ वसूनि दासा वृत्राण्यार्या जिगेथ । शूर इव धृष्णुश्च्यवनो जनानां त्वमग्ने पृतनायूँरभि ष्या: ॥ - Rigveda/10/69/6
  • समञ्जन्तु विश्वे देवाः समापो हृदयानि नौ । सं मातरिश्वा सं धाता समु देष्ट्री दधातु नौ ॥ - Rigveda/10/85/47
  • समत्र गावोऽभितोऽनवन्तेहेह वत्सैर्वियुता यदासन्। सं ता इन्द्रो असृजदस्य शाकैर्यदीं सोमासः सुषुता अमन्दन् ॥१०॥ - Rigveda/5/30/10
  • समत्सु त्वा शूर सतामुराणं प्रपथिन्तमं परितंसयध्यै। सजोषस इन्द्रं मदे क्षोणीः सूरिं चिद्ये अनुमदन्ति वाजै: ॥ - Rigveda/1/173/7
  • समत्स्वग्निमवसे वाजयन्तो हवामहे । वाजेषु चित्रराधसम् ॥ - Rigveda/8/11/9
  • समत्स्वग्निमवसे वाजयन्तो हवामहे । वाजेषु चित्रराधसम् ॥११६८॥ - Samveda/1168
  • समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय । अर्वाचीनँवसुविदम्भगन्नो रथमिवाश्वा वाजिनऽआ वहन्तु ॥ - Yajurveda/34/39
  • समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय। अर्वाचीनं वसुविदं भगं नो रथमिवाश्वा वाजिन आ वहन्तु ॥६॥ - Rigveda/7/41/6
  • समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय। अर्वाचीनं वसुविदं भगं मे रथमिवाश्वा वाजिन आ वहन्तु ॥ - Atharvaveda/3/16/0/6
  • समना तूर्णिरुप यासि यज्ञमा नासत्या सख्याय वक्षि । वसाव्यामिन्द्र धारयः सहस्राश्विना शूर ददतुर्मघानि ॥ - Rigveda/10/73/4
  • समनेव वपुष्यतः कृणवन्मानुषा युगा । विदे तदिन्द्रश्चेतनमध श्रुतो भद्रा इन्द्रस्य रातय: ॥ - Rigveda/8/62/9
  • समन्या यन्त्युप यन्त्यन्याः समानमूर्वं नद्यः पृणन्ति। तमू शुचिं शुचयो दीदिवांसमपां नपातं परि तस्थुरापः॥ - Rigveda/2/35/3
  • समन्या यन्त्युपयन्त्यन्याः समानमूर्वं नद्यस्पृणन्ति । तमू शुचिꣳ शुचयो दीदिवाꣳसमपान्नपातमुप यन्त्यापः ॥६०७॥ - Samveda/607
  • समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम। आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि ॥१७॥ - Rigveda/5/43/17
  • समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम। आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि ॥१८॥ - Rigveda/5/42/18
  • समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम। आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि ॥५॥ - Rigveda/5/76/5
  • समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम। आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि ॥५॥ - Rigveda/5/77/5
  • समस्मिञ्जायमान आसत ग्ना उतेमवर्धन्नद्य१: स्वगूर्ताः । महे यत्त्वा पुरूरवो रणायावर्धयन्दस्युहत्याय देवाः ॥ - Rigveda/10/95/7
  • समस्मिंल्लोके समु देवयाने सं स्मा समेतं यमराज्येषु। पूतौ पवित्रैरुप तद्ध्वयेथां यद्यद्रेतो अधि वां संबभूव ॥ - Atharvaveda/12/3/0/3
  • समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः । समुद्रायेव सिन्धवः ॥१३७॥ - Samveda/137
  • समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः । समुद्रायेव सिन्धवः ॥१६५१॥ - Samveda/1651
  • समस्य मन्यवे विशो विश्वा नमन्त कृष्टय: । समुद्रायेव सिन्धवः ॥ - Rigveda/8/6/4
  • समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः। समुद्रायेव सिन्धवः ॥ - Atharvaveda/20/107/0/1
  • समस्य हरिं हरयो मृजन्त्यश्वहयैरनिशितं नमोभिः । आ तिष्ठति रथमिन्द्रस्य सखा विद्वाँ एना सुमतिं यात्यच्छ ॥ - Rigveda/9/96/2
  • समहमेषां राष्ट्रं स्यामि समोजो वीर्यं बलम्। वृश्चामि शत्रूणां बाहूननेन हविषाहम् ॥ - Atharvaveda/3/19/0/2
Top