Loading...
यजुर्वेद अध्याय - 4

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 4/ मन्त्र 24
    ऋषिः - वत्स ऋषिः देवता - यज्ञो देवता छन्दः - ब्राह्मी जगती,याजुषी पङ्क्ति, स्वरः - निषादः, पञ्चमः
    167

    ए॒ष ते॑ गाय॒त्रो भा॒गऽइति॑ मे॒ सोमा॑य ब्रूतादे॒ष ते॒ त्रैष्टु॑भो भा॒गऽइति॑ मे॒ सोमा॑य ब्रूतादे॒ष ते॒ जाग॑तो भा॒गऽइति॑ मे॒ सोमा॑य ब्रूताच्छन्दोना॒माना॒ सा॑म्राज्यङ्ग॒च्छेति॑ मे॒ सोमा॑य ब्रूतादास्मा॒कोऽसि शु॒क्रस्ते॒ ग्रह्यो॑ वि॒चित॑स्त्वा॒ विचि॑न्वन्तु॥२४॥

    स्वर सहित पद पाठ

    ए॒षः। ते॒। गा॒य॒त्रः। भा॒गः। इति॑। मे॒। सोमा॑य। ब्रू॒ता॒त्। ए॒षः। ते॒। त्रैष्टु॑भः। त्रैस्तु॑भ॒ इति त्रैऽस्तु॑भः। भा॒गः। इति॑। मे॒। सोमा॑य। ब्रू॒ता॒त्। ए॒षः। ते॒। जाग॑तः। भा॒गः। इति॑। मे॒। सोमा॑य। ब्रू॒ता॒त्। छ॒न्दो॒ना॒माना॒मिति॑ छन्दःऽना॒माना॑म्। साम्रा॑ज्य॒मिति॒ साम्ऽरा॑ज्यम्। ग॒च्छ॒। इति॑। मे॒। सोमा॑य। ब्रू॒ता॒त्। आ॒स्मा॒कः। अ॒सि॒। शु॒क्रः। ते॒। ग्रह्यः॑। वि॒चित॒ इति॑ वि॒ऽचितः॑। त्वा॒। वि। चि॒न्व॒न्तु॒ ॥२४॥


    स्वर रहित मन्त्र

    एष ते गायत्रो भाग इति मे सोमाय ब्रूतादेष ते त्रैष्टुभो भाग इति मे सोमाय ब्रूतादेष ते जागतो भाग इति मे सोमाय ब्रूताच्छन्दोनामानाँ साम्राज्यङ्गच्छेति मे सोमाय ब्रूतादास्माकोसि शुक्रस्ते ग्रह्यो विचितस्त्वा विचिन्वन्तु ॥


    स्वर रहित पद पाठ

    एषः। ते। गायत्रः। भागः। इति। मे। सोमाय। ब्रूतात्। एषः। ते। त्रैष्टुभः। त्रैस्तुभ इति त्रैऽस्तुभः। भागः। इति। मे। सोमाय। ब्रूतात। एषः। ते। जागतः। भागः। इति। मे। सोमाय। ब्रूतात्। छन्दोनामानामिति छन्दःऽनामानाम्। साम्राज्यमिति साम्ऽराज्यम्। गच्छ। इति। मे। सोमाय। बूतात्। आस्माकः। असि। शुक्रः। ते। ग्रह्यः। विचित इति विऽचितः। त्वा। वि। चिन्वन्तु॥२४॥

    यजुर्वेद - अध्याय » 4; मन्त्र » 24
    Acknowledgment

    संस्कृत (2)

    विषयः

    किं प्रतिपादनाय जिज्ञासुर्विदुषः पृच्छेदित्युपदिश्यते॥

    अन्वयः

    हे विद्वंस्त्वं विद्वांसं प्रति कोऽस्य यज्ञस्य गायत्रो भागोऽस्तीति पृच्छ, स विद्वान् ते तवैषोऽयमस्तीति मे मह्यं सोमायैतं ब्रूताद् ब्रवीतूपदिशतु। कोऽस्य यज्ञस्य त्रैष्टुभो भागोऽस्तीति त्वं पृच्छ, स ते तवैषोऽयमस्तीति समक्षे खल्वेतं मे मह्यं सोमाय ब्रूतात्। कोऽस्य यज्ञस्य जागतो भागोऽस्तीति त्वं पृच्छ, स ते तवैषोऽयमस्तीति प्रसिद्ध्यैतं सोमाय मे मह्यं ब्रूतात्। यथा भवांश्छन्दोनामानामुष्णिगादीनां छन्दसां मध्ये प्रतिपादितस्य यज्ञस्योपदेशे साम्राज्यं गच्छतु, तथैवैतेषामेनं सोमाय मे मह्यं ब्रूतात्। यस्त्वमास्माकः शुक्रोऽसि तस्मात् ते तवाहं विचितो ग्रह्योऽस्मि, त्वं मां सर्वैरेतैर्विचिनुहि, अहं त्वां विचिनोम्येव, सोऽपि सर्वे त्वामेतं यज्ञं मां च विचिन्वन्तु वर्धयन्तु॥२४॥

    पदार्थः

    (एषः) प्रत्यक्षः (ते) तव (गायत्रः) गायत्रीप्रगाथोऽस्य सः। सोऽस्यादिरितिच्छन्दसः प्रगाथेषु। (अष्टा॰४.२.५५) अनेन प्रगाथविषये प्रत्ययः (भागः) सेवनीयः (इति) प्रकारार्थे (मे) मह्यम् (सोमाय) पदार्थविद्यासम्पादकाय (ब्रूतात्) ब्रवीतु (एषः) यो विज्ञातुं योग्यः सः (ते) तव (त्रैष्टुभः) त्रिष्टुप् प्रगाथोऽस्य सः (भागः) अंशः (इति) प्रकारे (मे) मह्यम् (सोमाय) उत्तमरससम्पादकाय (ब्रूतात्) ब्रवीतु (एषः) योक्तुमर्हः (ते) तव (जागतः) जगती प्रगाथोऽस्य सः (भागः) स्वीकर्त्तुमर्हः (इति) प्रकारार्थे (मे) मह्यम् (सोमाय) पदार्थविद्यास्वीकारकाय (ब्रूतात्) उपदिशतु (छन्दोनामानाम्) यानि छन्दसामुष्णिगादीनां नामानि तेषाम्। अत्र अनसन्तान्न॰। (अष्टा॰५.४.१०३) इति सूत्रेण सामासान्तष्टच् प्रत्ययः (साम्राज्यम्) सम्यग्राजन्ते प्रकाशन्ते ते सम्राजो राजानस्तेषां भावः कर्म वा तत् (गच्छ) प्राप्नुहि प्रापय वा (इति) प्रकारे (मे) मह्यम् (सोमाय) ऐश्वर्य्ययुक्ताय राज्याय (ब्रूतात्) ब्रवीतु (आस्माकः) योऽस्माकमयमुपदेष्टाऽधिपतिः सः (असि) वर्त्तसे (शुक्रः) पवित्रः पवित्रकारको वा (ते) तव (ग्रह्यः) ग्रहीतुं योग्यः (विचितः) विविधविद्याशुभगुणधनादिभिश्चितः संयुक्तः (त्वा) त्वां तं वा (वि) विविधार्थे (चिन्वन्तु) वर्धयन्तु। अत्रान्तर्गतो ण्यर्थः। अयं मन्त्रः (शत॰३.३.२.४-८) व्याख्यातः॥२४॥

    भावार्थः

    अत्र वाचकलुप्तोपमालङ्कारः। मनुष्या विद्वद्भ्यः पृष्ट्वा सर्वा विद्याः संगृह्णीरन्। विद्वांसः खल्वेताः संग्राहयन्तु, परस्परमनुग्राह्यानुग्राहकभावेन वर्त्तित्वा सर्वे वृद्धिं प्राप्य चक्रवर्त्तिराज्यं सेवेरन्निति॥२४॥

    इस भाष्य को एडिट करें

    विषयः

    किं प्रतिपादनाय जिज्ञासुर्विदुषः पृच्छेदित्युपदिश्यते।।

    सपदार्थान्वयः

    हे विद्वन्! त्वं विद्वांसं प्रति कोऽस्य यज्ञस्य गायत्रः गायत्री प्रगाथोऽस्य सः भागः सेवनीयः अस्तीति एवं प्रकारं पृच्छ, स विद्वान् ते=तस्य (तव) एष प्रत्यक्षः अयमस्तीति एवं प्रकारं मे=मह्यं सोमाय पदार्थं विद्यासम्पादकाय एतं ब्रूताद्=ब्रवीतु=उपदिशतु। कोऽस्य यज्ञस्य त्रैष्टुभः त्रिष्टुप् प्रगार्थोऽस्य स भागःअंशः अस्तीति एवं प्रकारत्वं पृच्छ, स ते=तस्य (तव) एष यो विज्ञातुं योग्यः सः अयम् अस्तीति एवं प्रकारंसमक्षे खल्वेतं मे=मह्यंसोमाय उत्तमरससम्पादकाय ब्रूताद् ब्रवीतु । कोऽस्य यज्ञस्य जागतः जगतीप्रगाथोऽस्य स भागः स्वीकर्त्तुमर्हः अस्तीति एवं प्रकार त्वं पृच्छ, स ते तस्य (तव) एष योक्तुमहेः अयमस्तीति एवं प्रकार प्रसिध्क्ष्यैतं सोमाय पदार्थविद्यास्वीकारकाय मे=मह्यं ब्रूताद् उपादिशतु । यथा भवान् छन्दोनामानाम्=उष्णिगादीनां छन्दसां यानि छन्दसामुष्णिगादीनां नामानि तेषां मध्ये प्रतिपादितस्य यज्ञस्योपदेशे साम्राज्यं सम्यग्राजन्ते=प्रकाशन्ते ते सम्राजो=राजानस्तेषां भावः कर्म वा तत् [गच्छ]=गच्छतु प्राप्नुहि प्रापय वा तथैवैतेषामेनं सोमाय ऐश्वर्ययुक्ताय राज्याय मे=मह्यं ब्रूतात् ब्रवीतु । यतस्त्वमास्माकः योऽस्माकमयमुपदेष्टाऽधिपतिः स शुक्रः पवित्रः पवित्रकारको वा असि वर्त्तसे, तस्मान्ते= तवाहं विचितः विविधविद्याशुभगुणधनादिभिश्चित: संयुक्तः ग्रह्यः गृहीतुं योग्यः अस्मि, [त्वा]=त्वं मां सर्वैरेतैर्विचिनुहि। अहं त्वां तं वा विचिनोम्येवं सोऽपिसर्वे त्वामेतं यज्ञं मां च विचिन्वन्तु=वर्धयन्तु विविधं वर्धन्तु ॥ ४।२४ ।। [हे विद्वन्! त्वं विद्वांसं प्रतिकोऽस्य यज्ञस्य गायत्रो भागोऽस्तीति पृच्छ, स विद्वान् ते=तस्यैषोऽयमस्तीति....एतं ब्रूताद्=ब्रवीति=उपदिशतु]

    पदार्थः

    (एषः) प्रत्यक्षः (ते) तव (गायत्रः) गायत्रीप्रगाथोऽस्य सः । सोऽस्यादिरितिच्छन्दस: प्रगाथेषु ॥ अ० ४ । २ । ५५ ॥ अनेन प्रगाथविषये प्रत्यय: (भागः) सेवनीयः (इति) प्रकारार्थे (मे) मह्यम् (सोमाय) पदार्थविद्यासंपादकाय (ब्रूतात्) ब्रवीतु (एषः) यो विज्ञातुं योग्यः सः (ते) तव (त्रैष्टुभः) त्रिष्टुप्-प्रगाथोऽस्य सः (भागः) अंशः (इति) प्रकारे (मे) मह्यम् (सोमाय) उत्तमरससंपादकाय (ब्रूतात्) ब्रवीतु (एषः) योक्तुमर्हः (ते) तव (जागतः) जगतीप्रगाथोऽस्य सः (भागः) स्वीकर्तुमर्हः (इति) प्रकारार्थे (मे) मह्यम् (सोमाय) पदार्थविद्यास्वीकारकाय (ब्रूतात्) उपदिशतु (छन्दोनामानाम्) यानि छन्दसामुष्णिगादीनां नामानि तेषाम् । अत्र अनसन्तान्न० ॥ अ० ५ । ४ । १०३।।इति सूत्रेण समासान्तष्टच् प्रत्ययः (साम्राज्यम्) सम्यग्राजन्ते= प्रकाशन्ते ते सम्राजी राजानस्तेषां भावः कर्म वा तत् (गच्छ) प्राप्नुहि प्रापय वा (इति) प्रकारे (मे) मह्यम् (सोमाय) ऐश्वर्य्ययुक्ताय राज्याय (ब्रूतात्) ब्रवीतु (अस्माकः) योऽस्माकमयमुपदेष्टाऽधिपतिः सः (असि) वर्त्तते (शुक्रः) पवित्रः पवित्रकारको वा (ते) तव (ग्रह्यः) ग्रहीतुं योग्यः (विचितः) विविधविद्याशुभगुणधनादिभिश्चित: संयुक्तः (त्वा) त्वां तं वा (वि) विविधार्थे (चिन्वन्तु) वर्धयन्तु । अत्रान्तर्गतो ण्यर्थः। अयं मंत्र श० ३।३।२।४-८ व्याख्यातः ॥ २४ ॥

    भावार्थः

    अत्र वाचकलुप्तोपमालङ्कारः॥ मनुष्या विद्वद्भ्यः पृष्ट्वा सर्वा विद्याः संगृह्णीरन्। विद्वांसः खल्वेता: संग्राहयन्तु । [ते=तवाहं विचितो ग्रह्योऽस्मि.....सर्वे त्वामेतं यज्ञं मां च विचिन्वन्तु=वर्धयन्तु] परस्परमनुग्राह्यानुग्राहकभावेन वर्त्तित्वा सर्वे वृद्धिं प्राप्य चक्रवर्त्तिराज्यं सेवेरन्निति ।। ४ । २४ ॥

    भावार्थ पदार्थः

    ग्रह्यः=परस्परमनुग्राह्यानुग्राहकभावः ।

    विशेषः

    वत्सः । यज्ञः=स्पष्टम् । पूर्वस्य ब्राह्मी जगती । निषादः ॥ अन्त्यस्य दशाक्षरस्य याजुषी पंक्तिः । पञ्चमः ॥

    इस भाष्य को एडिट करें

    हिन्दी (4)

    विषय

    किसके प्रतिपादन के लिये ज्ञान की इच्छा करनेहारा विद्वानों को पूछे, इस विषय का उपदेश अगले मन्त्र में किया है॥

    पदार्थ

    हे विद्वन्! तू कौन इस यज्ञ का (गायत्रः) वेदस्थ गायत्री छन्दयुक्त मन्त्रों के समूहों से प्रतिपादित (भागः) सेवने योग्य भाग है, (इति) इस प्रकार विद्वान् से पूछ। जैसे वह विद्वान् (ते) तुझ को उस यज्ञ का यह प्रत्यक्ष भाग है, (इति) इसी प्रकार से (सोमाय) पदार्थविद्या सम्पादन करने वाले (मे) मेरे लिये (ब्रूतात) कहे। तू कौन इस यज्ञ का (त्रैष्टुभः) त्रिष्टुप् छन्द से प्रतिपादित (भागः) भाग है, (इति) इसी प्रकार विद्वान् से पूछ। जैसे वह (ते) तुझको उस यज्ञ का (एषः) यह भाग है, (इति) इसी प्रकार प्रत्यक्षता से समाधान (सोमाय) उत्तम रस के सम्पादन करने वाले (मे) मेरे लिये (ब्रूतात्) कहे। तू कौन इस यज्ञ का (जागतः) जगती छन्द से कथित (भागः) अशं है, (इति) इस प्रकार आप्त से पूछ। जैसे वह (ते) तुझ को उस यज्ञ का (एषः) यह प्रसिद्ध भाग है, (इति) इसी प्रकार (सोमाय) पदार्थविद्या को सम्पादन करने वाले (मे) मेरे लिये उत्तर (ब्रूतात्) कहे। जैसे आप (छन्दोनामानाम्) उष्णिक् आदि छन्दों के मध्य में कहे हुए यज्ञ के उपदेश में (साम्राज्यम्) भले प्रकार राज्य को (गच्छ) प्राप्त हो (इति) इसी प्रकार (सोमाय) ऐश्वर्य्ययुक्त (मे) मेरे लिये सार्वभौम राज्य की प्राप्ति होने का उपाय (ब्रूतात्) कहिये और जिस कारण आप (आस्माकाः) हम लोगों को (शुक्रः) पवित्र करने वाले उपदेशक (असि) हैं, वैसे मैं (ते) आपके (ग्रह्यः) ग्रहण करने योग्य (विचितः) उत्तम-उत्तम धनादि द्रव्य और गुणों से संयुक्त शिष्य हूं। आप मुझको सब गुणों से बढ़ाइये, इस कारण मैं (त्वा) आपको वृद्धियुक्त करता हूं और सब मनुष्य (त्वा) आप वा इस यज्ञ तथा मुझको (विचिन्वन्तु) वृद्धियुक्त करें॥२४॥

    भावार्थ

    इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्य लोग विद्वानों से पूछकर सब विद्याओं का ग्रहण करें तथा विद्वान् लोग इन विद्याओं का यथावत् ग्रहण करावें। परस्पर अनुग्रह करने वा कराने से सब वृद्धियों को प्राप्त होकर विद्या और चक्रवर्त्ति आदि राज्य को सेवन करें॥२४॥

    इस भाष्य को एडिट करें

    विषय

    ज्ञान-पुष्प विचयन

    पदार्थ

    १. विद्यार्थी आचार्य से कहता है कि ( एषः ) = यह ( ते ) = आपका ( गायत्रः ) = गायत्रीछन्द-सम्बन्धी ( भागः ) = सेवन है। आपने गायत्रीछन्द के मन्त्रों का खूब अध्ययन किया है, उन्हें अपने जीवन का भाग [ part and parcel ] बनाया है, ( इति ) = इस कारण ( मे ) = मुझ ( सोमाय ) = सौम्य स्वभाववाले के लिए ( ब्रूतात् ) = इसका उपेदश कीजिए। 

    २. ( एषः ) = यह ( ते ) = आपका ( त्रैष्टुभः ) = त्रिष्टुप् छन्द-सम्बन्धी ( भागः ) = सेवन है। आपने त्रिष्टुप्छन्द के मन्त्रों द्वारा ‘प्रकृति, जीव व परमात्मा’ तीनों का स्तवन किया है, अर्थात् तीनों का ही ज्ञान प्राप्त किया है। अथवा इन तीनों का ज्ञान प्राप्त करके ‘आध्यात्मिक, आधिभौतिक व आधिदैविक’ तीनों ही कष्टों को समाप्त किया है अथवा ‘काम-क्रोध-लोभ’ इन तीनों शत्रुओं को अन्दर घुसने से रोका है [ त्रि-स्तुप् to stop ]। एवं, ये मन्त्र आपके जीवन का भाग बन गये हैं, ( इति ) = इस कारण ( मे सोमाय ) = मुझ सौम्य स्वभाववाले के लिए ( ब्रूतात् ) = आप इनका उपदेश कीजिए। 

    ३. हे प्रभो! ( एषः ) = यह ( ते ) = तेरा ( जागतः ) = जगतीछन्द-सम्बन्धी मन्त्रों का ( भागः ) = सेवन है। आपने जगती छन्द के मन्त्रों का अध्ययन करके उन्हें अपने जीवन का भाग बना लिया है और परिणामतः आप सर्वभूतहित में रत हुए हैं, ( इति ) = इस कारण ( मे सोमाय ) = मुझ सौम्य के लिए ( ब्रूतात् ) = इनका उपदेश कीजिए।

    ४. आप ( छन्दोनामानाम् ) = उष्णिक् आदि छन्द नामवाले मन्त्रों के ( साम्राज्यं गच्छ ) = साम्राज्य को प्राप्त हुए हैं [ अगच्छाः = गच्छ ] अर्थात् उनके अधिपति बने हैं, ( इति ) = अतः ( मे सोमाय ) = मुझ सौम्य स्वभाववाले के लिए ( ब्रूतात् ) = उनका उपदेश कीजिए। 

    ५. ( आस्माकः असि ) = [ अस्माकमयत् इति ] आप हमारे उपदेष्टा हैं। आप हमारा हित चाहनेवाले हैं। 

    ६. ( शुक्रः ) = आप [ शुच् दीप्तौ ] दीप्त ज्ञानवाले हैं [ शुचि पवित्र ] पवित्र मनवाले हैं [ शुक् गतौ ] निरन्तर क्रियाशील [ ब्रह्मज्ञानी ] हैं [ क्रियावानेष ब्रह्मविदां वरिष्ठः

    ७. ( ते ) = आपकी यह वेदवाणी ( ग्रह्यः ) = हमारे ग्रहण के योग्य है। अथवा आपका यह वेदज्ञान औरों से ग्रहण के योग्य है। आप इस वेदज्ञान को देने के लिए सदैव उद्यत हैं। 

    ८. ( विचितः ) = विशेष रूप से या ( वि ) = एक- एक करके इन ज्ञानपुष्पों का चयन करनेवाले ब्रह्मचारी ( त्वा विचिन्वन्तु ) = आपसे इन ज्ञानपुष्पों का चयन करें। [ चि धातु, द्विकर्मक है ‘वृक्षम् अवचिनोति फलानि ] जैसे एक पुजारी बाग में आकर वृक्षों से फूलों का अवचयन करता है इसी प्रकार एक सौम्य शिष्य आचार्यरूप वृक्ष से ज्ञानरूप पुष्पों का चयन करता है। यही विद्यार्थी आचार्य का ‘वत्स’ = प्रिय होता है।

    भावार्थ

    भावार्थ — आचार्य ज्ञानी हो, विद्यार्थी का भला चाहे। विद्यार्थी सौम्य हो, उसमें ज्ञान-प्राप्ति की प्रबल कामना हो। ज्ञानपुष्पों का चयन ही उसका ध्येय हो।

    इस भाष्य को एडिट करें

    विषय

    राजा का अधिकार दान ।

    भावार्थ

     राजा को अधिकार प्रदान । हे विद्वन् मण्डल ! ( मे सोमाय ) सबके प्रेरक मुझ सोम को ( इति ब्रूतात् ) इस प्रकार स्पष्ट करके बतलाओ कि ( एषः ते गायत्रो भागः ) हे राजन् ! तेरा यह गायत्र = ब्राह्मणों का भाग है। इसी प्रकार ( मे सोमाय इति ब्रूतात् ) मुझ राजा को यह बतलाओ 
    कि ( एष ते त्रैष्टुभो भागः ) त्रैष्टुभ अर्थात् छात्रबल सम्बन्धी यह तेरा भाग है और ( एषः ते जागतो भागः ) यह इतना वैश्य सम्बन्धी तेरा भाग है और मुझ सोम राजा को यह आज्ञा दो कि ( छन्दो- नामानां ) छन्द = प्रजाके पालन और दुष्टों के दमन के समस्त उपायों के ( साम्राज्यम् ) समस्त राजाओं के ऊपर सर्वोपरि विराजमान महाराज के पद को तू ( गच्छ इति ) प्राप्त हो । अथवा प्रत्येक प्रजा के प्रतिनिधि अपना कर या अंश देते हुए बीच के प्रधान पुरुष से कहें, ( इति ) यह ( मे ) मेरा वचन ( सोमाय ब्रूतात् ) सोम राजा को कहो कि हे राजन् (एष ते गायत्रो भागः )ब्राह्मणों की तरफ से यह तेरा सेवनीय अंश है । ( एष ते त्रैष्टुभो भागः ) यह तेरा क्षत्रियों की तरफ से अंश है। (एष ते जागतो भागः ) यह वैश्यों की ओर से तेरा भाग है । ( छन्दो नामानाम् ) छन्द अर्थात् समस्त राष्ट्र के अधिकार पदों और नाम अर्थात् नमन करने के अधिकारों में से सबसे ऊंचे साम्राज्य पदको तू प्राप्त हो । प्रजाजन कहे -हे राजन् ! तू ( अस्माक: असिः ) हमारा ही है । ( शुक्रः ) अति तेजस्वी शरीर में वीर्य के समान सभी राष्ट्र शरीर में तेजस्वी पदार्थ, एवं शासनपद और इसी प्रकार इन्द्र आदि सब अधिकार भी ( ते ग्रह्यः ) तुझे ही स्वीकार करने योग्य हैं और ( विचित: ) विशेष रूप से या विविध प्रकार से चुनने वाले ज्ञानी पुरुष भी ( वा ) तुमको ही ( विचिन्वन्तु ) विशेष रूप से आदर योग्य पद पर चुनें, वरण करके तुझ जैसे योग्य पुरुष को खोज खोज कर अपना राजा बनावें ॥ शतं ० ३।३।२।१-८॥

    टिप्पणी

     २४ - ० छन्दोमानानां साम्राज्यं गच्छतादिति०' इति काण्व ० । 
               १. वृषा वै सोमो योषा पत्नी । इति शत० ॥ १ एषा ते। २ आस्माको। 

    ऋषि | देवता | छन्द | स्वर

     लिंगोक्ताः , सोमो यज्ञो वा देवता । ( १ ) ब्राह्मी जगती । निषादः स्वरः ।
    ( २ ) याजूषी पंक्तिः । पञ्चमः स्वरः ॥

    इस भाष्य को एडिट करें

    विषय

    किस के प्रतिपादन के लिये जिज्ञासु मनुष्य विद्वानों से पूछे, इस विषय का उपदेश किया है ।।

    भाषार्थ

    हे विद्वान् मनुष्य! तू विद्वान् से कौन यज्ञ का (गायत्रः) गायत्री वाला (भागः) सेवनीय भाग है (इति) ऐसा पूछ। वह विद्वान् (ते) तुझे उस यज्ञ का (एषः) यह भाग है (इति) इस प्रकार (मे) मुझ (सोमाय) पदार्थ विद्या के सिद्ध करने वाले को इस यज्ञ का (ब्रूतात्) उपदेश करें। कौन इस यज्ञ का (त्रैष्टुभः) त्रिष्टुप् छन्द वाला (भाग:) अंश है (इति) ऐसा तू पूछ--वह (ते) तुझे उसका (एषः) जानने के योग्य यह भाग है ऐसा समक्ष ही इसका (मे) मुझे (सोमाय) उत्तम रसों को सिद्ध करने वाले के लिए (ब्रूतात्) उपदेश करें। कौन इस यज्ञ का (जागतः) जगती छन्द वाला (भागः) स्वीकार करने योग्य भाग है (इति) ऐसा तू पूछ, वह (ते) तुझे उसका (एषः) यह युक्त करने योग्य भाग है। इस प्रसिद्धि से उसका (सोमाय) पदार्थ विद्या को स्वीकार करने वाले (मे) मुझ को (ब्रूतात्) उपदेश करे। जैसे आप (छन्दोनामानाम्) उष्णिक् आदि छन्दों के मध्य में (साम्राज्यम्) अच्छे प्रकार प्रकाशित होने वाले राजाओं के स्वभाव वा कर्म को [गच्छ] प्राप्त होते हो वैसे ही (सोमाय) ऐश्वर्य युक्त राज्य प्राप्ति के लिए (मे) मुझे (ब्रूतात्) उपदेश करो । जो यह (आस्माक:) हमें उपदेश करने वाला स्वामी है वह (शुक्रः) स्वयं पवित्र तथा अन्यों को पवित्र करने वाला (असि) है। इसलिए (ते) तेरा मैं (विचितः) नाना विद्या, शुभ गुण तथा धन आदि से युक्त (ग्रह्यः) ग्रहण करने योग्य हूँ । [आप] तू मुझे इन सबके साथ बढ़ाइये। मैं (त्वा) तुझे वा उसको बढ़ाता ही हूँ, वह भी तथा सब तुम इस को और मुझे (विचिन्वन्तु) विविध प्रकार से बढ़ावें ।। ४ । २४ ।।

    भावार्थ

    इस मन्त्र में वाचकलुप्तोपमा अलङ्कार है। सब मनुष्य विद्वानों से प्रश्न करके सब विद्याओं का संग्रह करें और विद्वान् लोग इन विद्याओं को ग्रहण करावें । परस्पर अनुग्राह्य-अनुग्राहक भाव से वर्ताव करके सब लोग वृद्धि को प्राप्त करके चक्रवर्ती राज्य का सेवन करें ।। ४ । २४ ।।

    प्रमाणार्थ

    (गायत्रः) यह शब्द 'सोऽस्यादिरितिच्छन्दसः प्रगाथेषु' (अ० ४ । २ । ५५) सूत्र से प्रगाथ विषय में गायत्री शब्द से 'अण्' प्रत्यय करने पर सिद्ध है। (छन्दोनामानाम्) यहाँ 'अनसन्तान्न.' (अ० ५ । ४ । १०३) सूत्र से समासान्त 'टच्' प्रत्यय है। (चिन्वन्तु) यहाँ णिच् का अर्थ अन्तर्भावित है। इस मन्त्र की व्याख्या शत० (३।३।२।४–८) में की गई है ॥ ४ । २४ ।।

    भाष्यसार

    जिज्ञासु मनुष्य विद्वानों से पूछे--हे विद्वान् पुरुष ! इस यज्ञ का गायत्र, त्रैष्टुभ और जागत भाग कौन-सा है? विद्वान्, पदार्थ विद्या के सम्पादक, उत्तम रस के साधक, एवं पदार्थ विद्या के स्वीकर्ता जिज्ञासु मनुष्य को उत्तर देवे कि यज्ञ का गायत्र आदि भाग यह है, ऐसा उपदेश करे । इस प्रकार सब मनुष्य विद्वानों से प्रश्न करके सब विद्याओं का संग्रह करें और विद्वान् लोग इन विद्याओं को ग्रहण करावें । जैसे विद्वान् लोग उष्णिक् आदि छन्दों से युक्त वेदों में प्रतिपादित यज्ञ के उपदेश से साम्राज्य को प्राप्त करते हैं वैसे जिज्ञासु मनुष्यों को भी इसका उपदेश करें। विद्वान् लोग स्वयं पवित्र तथा अन्यों को पवित्र करने वाले होते हैं। वे विविध विद्या, शुभ गुण और धनादि से युक्त जिज्ञासु जन पर अनुग्रह करें। इस प्रकार विद्वान् और जिज्ञासु लोग परस्पर अनुग्राह्य और अनुग्राहक भाव से व्यवहार करके वृद्धि को प्राप्त हों और चक्रवर्ती राज्य का सेवन करें ॥ ४ ॥ २४ ॥

    इस भाष्य को एडिट करें

    मराठी (2)

    भावार्थ

    या मंत्रात वाचकलुप्तोपमालंकार आहे. माणसांनी विद्वानांशी परामर्श करून सर्व विद्या ग्रहण कराव्यात व विद्वान लोकांनीही यथायोग्य रीतीने विद्या प्रदान करावी. परस्परांवर अनुग्रह करून किंवा करवून सर्व प्रकारची वृद्धी करावी आणि विद्या व चक्रवर्ती राज्य इत्यादी प्राप्त करावे.

    इस भाष्य को एडिट करें

    विषय

    ज्ञान-प्राप्तीची कामना करणार्‍या व्यक्तीने विद्वानांकडे जिज्ञासा प्रकट करावी, पण ती कशासाठी? हा विषय मंत्रात प्रतिपादित आहे -

    शब्दार्थ

    शब्दार्थ - हे ज्ञानार्थी मनुष्या, तू विद्वान् ज्ञानी मनुष्यांना विचार सी या यज्ञाच्या (गायत्रः) वेदांमधील गायत्री छंदातील मंत्रांनी प्रतिपादित होणारा (भागः) भाग कोणता आहे? (इतति) असा प्रश्‍न तू विद्वानांना विचार ते विद्वजन (ते) तुला यज्ञाचा तो भाग कोणता आहे (म्हणजे कोणता यज्ञ गायत्री छंदातील मंत्रांनी संपन्न केला पाहिजे?) ते सांगतील. याचप्रमाणे (सोमाय) पदार्थ विद्युत (भौतिकशास्त्र) चा अभ्यास करणार्‍या अशा (मे) मला कोणी तरी (ब्रूतात्) म्हणावे किंवा कोणी तरी मला विचाराच; की या यज्ञाचा (चैष्टुभः) त्रिष्टुपू छंदाने संपन्न होणारा (भागः) भाग कोणता आहे? (इति) अशा प्रकारे विद्वानाला विचारल्यानंतर तो सांगेल की (ते) यज्ञाला तो भाग (इति) या प्रकारे आहे (म्हणजे त्रिष्टुप्छंदातील या मंत्रांनी यज्ञ केला पाहिजे) असे सांगून माझे समाधान करील. पुनश्‍च (सोमाय) उत्तम रसाचे उत्पादन करणार्‍या विद्वानाला (मे) मी (ब्रुतात्) विचारले की यज्ञाचा (जागतः) जगती छंदाद्वारे अनुष्ठानित होणारा (भागः) अंश कोणता आहे? (इति) असे विचारल्यानंतर ती आप्त व्यक्ती (ते) तुला व मला सांगेल की या यज्ञाचा (एज्ञः) हा भाग जगती छंदाद्वाने संपन्न होतो. (इति) असे उत्तर ऐकल्यानंतर पुन्हा कोणीतरी (सोमाय) पदार्थ विद्येचा (भौतिक शास्त्राचा) शोध व अभ्यास करणार्‍या अशा (मे) मला (ब्रूतात्) विचारले की (छन्दोनामानाम्) उष्णिक् छंदातील मंत्रात यज्ञाविषयी कोणता उपदेश केला आहे? तो सांगा (तो जिज्ञासू विद्यार्थी म्हणतो) हे विद्वान, जसे आपण ते सर्व जाणता व त्याद्वारे (साम्राज्यम्) आपण ज्याप्रमाणे साम्राज्याला (गच्छ) प्राप्त केले आहे (इति) मी अशी विनंती करतो की (मे) मला (सोमाय) ऐश्‍वर्यप्राप्तीचा व सार्वभौमराज्य प्राप्त करण्याचा उपाय (ब्रूतात्) सांगा, कारण की आपणच (आस्माकः) आमच्यासाठी (शुक्रः) पवित्र उपदेश देणारे (असि) आघत. मी (ते) आपला (गृहय्ः) ग्रहणीय वा स्वीकार करण्यास योग्य असा सत्पात्र शिष्य आहे मी (विश्वत) उत्तम धनादी द्रव्यांनी व सद्गुणांनी समृद्ध असा सुयोग्य शिष्य आहे. आपण मला आणखी अधिक गुण धारण करण्याची रीती सांगा. असे शिष्यवचन ऐकल्यानंतर विद्वान आचार्य म्हणतात-(त्वा) मी तुला त्या सद्गुणांनी समृद्ध करीत आहे, या प्रकारचे सर्व मनुष्यांनी (त्वा) तुला, या यज्ञाला अथवा मला देखील (विचिन्वतु) सद्गुणयुक्त करीत बृद्धी करावी व करवावी (एकमेकास यज्ञाचे मंत्र, विविध छंदाचे ज्ञान ऐश्‍वर्यप्राप्ती व उन्नती करीत सर्वांनी सर्वांचे कल्याण करावे ॥24॥

    भावार्थ

    भावार्थ - या मंत्रात वाचकलुप्तोपमा अलंकार आहे (सामान्य विद्यावान लोकांनी अत्यंत विद्वान लोकांजवळ विचारणा व शब्दादी विचारून त्यांच्याकडून सर्व विद्यांचे ज्ञान मिळवावे. तसेच विद्वान मंडळीनी देखील त्या जिज्ञासूजनांना यथावत ज्ञान द्यावे. अशा प्रकारे परस्परात ग्रहण व दान करीत सर्वांनी उत्कर्ष साधावा व विद्या तसेच चक्रवर्ती राज्य संपादित करावे. ॥24॥

    इस भाष्य को एडिट करें

    इंग्लिश (3)

    Meaning

    O learned person "This is thy share of the sacrifice allied with Gayatri verses" so may he say unto me a student of science. This is thy share of the sacrifice allied with Trishtup verses/ so may he say unto me, the seeker of the essence of things. This is thy share of the sacrifice allied with verses in Jagati metre/ so may he say unto me a student of science. May thou attain to sovereignty detailed in vedic verses in all other metres’. May he thus preach the art of kingship unto me, full of affluence, O learned persons, just as ye are our purifying preachers, so am I your worthy disciple, endowed with virtues and wealth. May ye develop me and this sacrifice (yajna) as well.

    इस भाष्य को एडिट करें

    Meaning

    “This is that part of Soma-Yajna which you can realize for yourself with the Gayatri verses”, say this for me, to the seeker of the chemistry of Soma. “This is that part of Soma-Yajna which you can realize for yourself with the Trishtubh verses”, say this for me, to the seeker of the manufacture of Soma. “This is that part of Soma-Yajna which you can realize for yourself with the Jagati Verses”, say this for me, to the seeker of the value of Soma. “Perform the Soma-Yajna with the specific verses for social management and governance and be on top of success”, say this for me, to the seeker of the power of Soma. You are pure, specialist of Soma- Yajna, you are purifier, you are ours, so wise, knowledgeable, so adorable. We, the seekers of knowledge and discrimination, accept you, support you and advance the yajna.

    इस भाष्य को एडिट करें

    Translation

    May he tell me: “this is your share оf bliss pertaining to the gayatri metre". May he tell me: "this is your share of bliss pertaining to the tristubh metre”. May he tell me: “this is your share of bliss pertaining to the jagati metre. " May he tell me: “you gain the kinship over other metres also". Now O bliss, you are ours. Brightening is your intake. Let the experts pick you out. (1)

    Notes

    Sukrab,brightening. Grabyah, for ग्रह:, intake; also, a vessel in which Soma-juice is taken. Vicitah, विवेकेन चयन कर्तार:, experts.

    इस भाष्य को एडिट करें

    बंगाली (1)

    विषय

    কিং প্রতিপাদনায় জিজ্ঞাসুর্বিদুষঃ পৃচ্ছেদিত্যুপদিশ্যতে ॥
    কী প্রতিপাদন হেতু জ্ঞানের আকাঙক্ষাকারী বিদ্বান্দিগকে জিজ্ঞাসা করিবে, এই বিষয়ের উপদেশ পরবর্ত্তী মন্ত্রে করা হইয়াছে ॥

    भावार्थ

    ভাবার্থঃ–হে বিদ্বান্ মনুষ্য । তুমি কে, এই যজ্ঞের (গায়ত্রঃ) বেদস্থ গায়ত্রী ছন্দযুক্ত মন্ত্র সমূহ দ্বারা প্রতিপাদিত (ভাগঃ) সেবন যোগ্য অংশ (ইতি) এই ভাবে বিদ্বান্ দিগের নিকটে জিজ্ঞাসা কর । যেমন সেই বিদ্বান্ (তে) তোমাকে সেই যজ্ঞের এই প্রত্যক্ষ অংশ (ইতি) এইভাবে (সোমায়) পদার্থ বিদ্যা সম্পাদনকারী (সে) আমার জন্য (ব্রূতাৎ) বলুন । তুমি কে এই যজ্ঞের (তৈষ্টুভঃ) ত্রিষ্টুপ্ ছন্দ দ্বারা প্রতিপাদিত (ভাগঃ) অংশ (ইতি) এই প্রকার বিদ্বান্দিগের নিকট জিজ্ঞাসা কর । যেমন তিনি (তে) তোমাকে সেই যজ্ঞের (এষঃ) এই অংশ (ইতি) এই প্রকার প্রত্যক্ষতা পূর্বক সমাধান (সোমায়) উত্তম রস সম্পাদনকারী (মে) আমার জন্য (ব্রূতাৎ) বলুন । তুমি কে এই যজ্ঞের (জাগতঃ) জগতী ছন্দ দ্বারা কথিত (ভাগঃ) অংশ (ইতি) এই প্রকার আপ্তের নিকট জিজ্ঞাসা কর । যেমন তিনি (তে) তোমাকে সেই যজ্ঞের (এষঃ) এ প্রসিদ্ধ অংশ (ইতি) এই প্রকার (সোমায়) পদার্থ বিদ্যা সম্পাদনকারীগণ (মে) আমার জন্য উত্তরে (ব্রূতাৎ) বলুন । যেমন আপনি (ছন্দোনামানাম্) উষ্ণিক্ ইত্যাদি ছন্দের মধ্যে কথিত যজ্ঞের উপদেশে (সান্ত্রাজোম্) ভাল প্রকার রাজ্য (গচ্ছ) প্রাপ্ত ইউন (ইতি) এই প্রকার (সোমায়) ঐশ্বর্য্যযুক্ত (মে) আমার জন্য সার্বভৌম রাজ্য প্রাপ্ত হওয়ার উপায় (ব্রূতাৎ) বলুন এবং যে কারণে আপনি (আস্মাকঃ) আমাদিগের (শুক্রঃ) পবিত্রকারী উপদেশক (অসি) আছেন সেইরূপ আমি (তে) আপনার (গ্রহ্যঃ) গ্রহণ করিবার যোগ্য (বিচিতঃ) উত্তম উত্তম ধনাদি দ্রব্য ও গুণ দ্বারা সংযুক্ত শিষ্য হই । আপনি আমাকে সকল গুণ দ্বারা বৃদ্ধি করুন এই কারণে আমি (ত্বা) আপনাকে বুদ্ধিযুক্ত করি এবং সকল মনুষ্য (ত্বা) আপনি বা এই যজ্ঞ তথা আমাকে (বিচিন্বন্তু) বুদ্ধিযুক্ত করুন ॥ ২৪ ॥
    ভাবার্থঃ–এই মন্ত্রে বাচকলুপ্তোপামালঙ্কার আছে । মনুষ্যগণ বিদ্বান্দিগের নিকট জিজ্ঞাসা করিয়া সকল বিদ্যার গ্রহণ করিবে তথা বিদ্বান্গণ এই বিদ্যাসকলের যথাবৎ গ্রহণ করাইবেন । পরস্পর অনুগ্রহ করিলে বা করাইলে সকল বৃদ্ধি প্রাপ্ত হইয়া বিদ্যা ও চক্রবর্ত্তী প্রভৃতি রাজ্য সেবন করিবে ॥ ২৪ ॥

    मन्त्र (बांग्ला)

    এ॒ষ তে॑ গায়॒ত্রো ভা॒গऽইতি॑ মে॒ সোমা॑য় ব্রূতাদে॒ষ তে॒ ত্রৈষ্টু॑ভো ভা॒গऽইতি॑ মে॒ সোমা॑য় ব্রূতাদে॒ষ তে॒ জাগ॑তো ভা॒গऽইতি॑ মে॒ সোমা॑য় ব্রূতাচ্ছন্দোনা॒মানা॒ᳬं সা॑ম্রাজ্যং গ॒চ্ছেতি॑ মে॒ সোমা॑য় ব্রূতাদাস্মা॒কো᳖ऽসি শু॒ক্রস্তে॒ গ্রহ্যো॑ বি॒চিত॑স্ত্বা॒ বি চি॑ন্বন্তু ॥ ২৪ ॥

    ऋषि | देवता | छन्द | स्वर

    এষ ত ইত্যস্য বৎস ঋষিঃ । য়জ্ঞো দেবতা । পূর্বস্য ব্রাহ্মী জগতী ছন্দঃ । নিষাদঃ স্বরঃ ॥ অন্ত্যস্য দশাক্ষরস্য য়াজুষী পংক্তিশ্ছন্দঃ । পঞ্চমঃ স্বরঃ ॥

    इस भाष्य को एडिट करें
    Top