Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 20
    सूक्त - सिन्धुद्वीपः देवता - आपः, चन्द्रमाः छन्दः - चतुरवसाना दशपदा त्रैष्टुभगर्भा कृतिः सूक्तम् - विजय प्राप्ति सूक्त

    यो व॑ आपो॒ऽपामश्मा॒ पृश्नि॑र्दि॒व्यो॒प्स्व॒न्तर्य॑जु॒ष्यो देव॒यज॑नः। इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि। तेन॒ तम॒भ्यति॑सृजामो॒ यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या ॥

    स्वर सहित पद पाठ

    य: । व॒: । आ॒प॒: । अ॒पाम् । अश्मा॑ । पृश्नि॑: । दि॒व्य: । अ॒प्ऽसु । अ॒न्त: । य॒जु॒ष्य᳡: । दे॒व॒ऽयज॑न: । इ॒दम् । तम् । अति॑ । सृ॒जा॒मि॒ । तम् । मा । अभिऽअवनिक्षि । तेन । तम् । अ॒भि॒ऽअति॑सृजाम: । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: । तम् । व॒धे॒य॒म् । तम् । स्तृ॒षी॒य॒ । अ॒नेन॑ । ब्रह्म॑णा । अ॒नेन॑ । कर्म॑णा । अ॒नया॑ । मे॒न्या ॥५.२०॥


    स्वर रहित मन्त्र

    यो व आपोऽपामश्मा पृश्निर्दिव्योप्स्वन्तर्यजुष्यो देवयजनः। इदं तमति सृजामि तं माभ्यवनिक्षि। तेन तमभ्यतिसृजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥

    स्वर रहित पद पाठ

    य: । व: । आप: । अपाम् । अश्मा । पृश्नि: । दिव्य: । अप्ऽसु । अन्त: । यजुष्य: । देवऽयजन: । इदम् । तम् । अति । सृजामि । तम् । मा । अभिऽअवनिक्षि । तेन । तम् । अभिऽअतिसृजाम: । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । तम् । वधेयम् । तम् । स्तृषीय । अनेन । ब्रह्मणा । अनेन । कर्मणा । अनया । मेन्या ॥५.२०॥

    अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 20

    भाषार्थ -
    (आपः) हे आप्त प्रजाओ! (वः) तुम्हारा (यः) जो (अपाम्) प्रजाओं सम्बन्धी (अश्मा) व्यापक या मेघवत् सुखवर्षी, (पृश्निः) आदित्यवर्णी, (दिव्यः) दिव्य परमेश्वर है, जो कि तुम्हारे (अप्सु अन्तः) हृदयान्तर्वर्ती जलों में विद्यमान है, (यजुष्यः) यजनीय तथा (देवयजनः) देवों अर्थात् साध्यों और ऋषियों द्वारा यजनीय है, (तम्) उस परमेश्वर के प्रति (इदम्) इस शरीर मन को (अतिसृजामि) मैं सम्राद् भेंट करता हू, समर्पित करता हूं। [हे परमेश्वर!] (तम्, मा) उस मुझ को, (अभि) अभिमुख हो कर (अवनिक्षि) शुचि, पवित्र कर। (तेन) उस शुचि, पवित्र सम्राट की आज्ञा द्वारा (तम्) उस शत्रु-राजा को (अभि) अभिमुख होकर (अतिसृजामः) हम सैनिक विनष्ट करते हैं (यः) जो कि (अस्मान् द्वेष्टि) हमारे साथ द्वेष करता है। और (यम्) जिस के साथ, प्रतिक्रिया में, (वयम् द्विष्मः) हम द्वेष करते हैं। अथवा (तम्र) उस शत्रु-राजा को (वधेयम्) मैं सम्राट् स्वयं वध करूं, (तम्, स्तृषीय) उस का विनाश करूं (अनेन व्रह्मणा) इस मन्त्रोक्त विधि द्वारा (अनेन कर्मणा) इस [द्वन्द्वयुद्ध-रूपी] कर्म द्वारा या (अनया मेन्या) इस वज्र द्वारा।

    इस भाष्य को एडिट करें
    Top