अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 31
सूक्त - ब्रह्मा
देवता - अग्निः
छन्दः - पञ्चपदा ककुम्मती शाक्वरगर्भा जगती
सूक्तम् - अध्यात्म प्रकरण सूक्त
अग्ने॑ स॒पत्ना॒नध॑रान्पादया॒स्मद्व्य॒थया॑ सजा॒तमु॒त्पिपा॑नं बृहस्पते। इन्द्रा॑ग्नी॒ मित्रा॑वरुणा॒वध॑रे पद्यन्ता॒मप्र॑तिमन्यूयमानाः ॥
स्वर सहित पद पाठअग्ने॑ । स॒ऽपत्ना॑न् । अध॑रान् । पा॒द॒य॒ । अ॒स्मत् । व्य॒थय॑ । स॒ऽजा॒तम् । उ॒त्ऽपिपा॑नम् । बृ॒ह॒स्प॒ते॒ । इन्द्रा॑ग्नी॒ इति॑ । मित्रा॑वरुणौ । अध॑रे । प॒द्य॒न्ता॒म् । अप्र॑तिऽमन्यूयमाना: ॥१.३१॥
स्वर रहित मन्त्र
अग्ने सपत्नानधरान्पादयास्मद्व्यथया सजातमुत्पिपानं बृहस्पते। इन्द्राग्नी मित्रावरुणावधरे पद्यन्तामप्रतिमन्यूयमानाः ॥
स्वर रहित पद पाठअग्ने । सऽपत्नान् । अधरान् । पादय । अस्मत् । व्यथय । सऽजातम् । उत्ऽपिपानम् । बृहस्पते । इन्द्राग्नी इति । मित्रावरुणौ । अधरे । पद्यन्ताम् । अप्रतिऽमन्यूयमाना: ॥१.३१॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 31
विषय - ‘रोहित’ रूप से परमात्मा और राजा का वर्णन।
भावार्थ -
हे (अग्ने) अग्ने ! ज्ञानमय प्रभो ! तू (सपत्नान् अधरान् पादय) हमारे शत्रुओं को नीचे गिरादे। और (अस्मत् सजातम्) हमारे समान बलवाले (उत्-पिपानम्) और हमसे ऊंचे होते हुए को हे (बृहस्पते) महान् लोकों के स्वामिन् ! बृहस्पते ! राजन् ! (व्यथय) पीड़ित कर। हे (इन्दाग्नी) इन्द्र और हे अग्ने ! (मित्रावरुणौ) हे मित्र और वरुण वे शत्रु लोग (अ-प्रति-मन्यूयमानाः) हमारे प्रति क्रोध रहित या निष्फल क्रोध वाले होकर (अधरे पद्यन्ताम्) नीचे गिरें।
टिप्पणी -
‘उत्पिदानं’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। रोहित आदित्यो देवता। अध्यात्मं सूक्तम्। ३ मरुतः, २८, ३१ अग्निः, ३१ बहुदेवता। ३-५, ९, १२ जगत्यः, १५ अतिजागतगर्भा जगती, ८ भुरिक्, १६, १७ पञ्चपदा ककुम्मती जगती, १३ अति शाक्वरगर्भातिजगती, १४ त्रिपदा पुरः परशाक्वरा विपरीतपादलक्ष्म्या पंक्तिः, १८, १९ ककुम्मत्यतिजगत्यौ, १८ पर शाक्वरा भुरिक्, १९ परातिजगती, २१ आर्षी निचृद् गायत्री, २२, २३, २७ प्रकृता विराट परोष्णिक्, २८-३०, ५५ ककुम्मती बृहतीगर्भा, ५७ ककुम्मती, ३१ पञ्चपदा ककुम्मती शाक्वरगर्भा जगती, ३५ उपरिष्टाद् बृहती, ३६ निचृन्महा बृहती, ३७ परशाक्वरा विराड् अतिजगती, ४२ विराड् जगती, ४३ विराड् महाबृहती, ४४ परोष्णिक्, ५९, ६० गायत्र्यौ, १, २, ६, ७, १०, ११, २०, २४, २५, ३२-३४, ३८-४१, ४२-५४, ५६, ५८ त्रिष्टुभः। षष्ट्यचं सूक्तम्॥
इस भाष्य को एडिट करें