अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 52
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - अध्यात्म प्रकरण सूक्त
वेदिं॒ भूमिं॑ कल्पयि॒त्वा दिवं॑ कृ॒त्वा दक्षि॑णाम्। घ्रं॒सं तद॒ग्निं कृ॒त्वा च॒कार॒ विश्व॑मात्म॒न्वद्व॒र्षेणाज्ये॑न॒ रोहि॑तः ॥
स्वर सहित पद पाठवेदि॑म् । भूमि॑म् । क॒ल्प॒यि॒त्वा । दिव॑म् । कृ॒त्वा । दक्षि॑णाम् । घ्रं॒सम् । तत् । अ॒ग्निम् । कृ॒त्वा । च॒कार॑ । विश्व॑म् । आ॒त्म॒न्ऽवत् । व॒र्षेण॑ । आज्ये॑न। रोहि॑त: ॥१.५२॥
स्वर रहित मन्त्र
वेदिं भूमिं कल्पयित्वा दिवं कृत्वा दक्षिणाम्। घ्रंसं तदग्निं कृत्वा चकार विश्वमात्मन्वद्वर्षेणाज्येन रोहितः ॥
स्वर रहित पद पाठवेदिम् । भूमिम् । कल्पयित्वा । दिवम् । कृत्वा । दक्षिणाम् । घ्रंसम् । तत् । अग्निम् । कृत्वा । चकार । विश्वम् । आत्मन्ऽवत् । वर्षेण । आज्येन। रोहित: ॥१.५२॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 52
विषय - ‘रोहित’ रूप से परमात्मा और राजा का वर्णन।
भावार्थ -
(भूमिम्) भूमि को (वेदिम्) वेदि (कल्पयित्वा) बनाकर और (दिवम्) द्यौलोक को (दक्षिणाम्) ‘दक्षिणा’ वेदि (कृत्वा) कर के और (घ्रंसम्) ‘घ्रंस’ को (तदग्निम्) दक्षिणवेदि में अग्नि (कृत्वा) बनाकर(रोहितः) सर्वोत्पादक परमात्मा (वर्षेण आज्येन) वर्षारूप ‘आज्य’ या घृत से (विश्वम्) समस्त विश्व को (आत्मन्वद्) अपनी चेतना शक्ति से युक्त (चकार) करता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। रोहित आदित्यो देवता। अध्यात्मं सूक्तम्। ३ मरुतः, २८, ३१ अग्निः, ३१ बहुदेवता। ३-५, ९, १२ जगत्यः, १५ अतिजागतगर्भा जगती, ८ भुरिक्, १६, १७ पञ्चपदा ककुम्मती जगती, १३ अति शाक्वरगर्भातिजगती, १४ त्रिपदा पुरः परशाक्वरा विपरीतपादलक्ष्म्या पंक्तिः, १८, १९ ककुम्मत्यतिजगत्यौ, १८ पर शाक्वरा भुरिक्, १९ परातिजगती, २१ आर्षी निचृद् गायत्री, २२, २३, २७ प्रकृता विराट परोष्णिक्, २८-३०, ५५ ककुम्मती बृहतीगर्भा, ५७ ककुम्मती, ३१ पञ्चपदा ककुम्मती शाक्वरगर्भा जगती, ३५ उपरिष्टाद् बृहती, ३६ निचृन्महा बृहती, ३७ परशाक्वरा विराड् अतिजगती, ४२ विराड् जगती, ४३ विराड् महाबृहती, ४४ परोष्णिक्, ५९, ६० गायत्र्यौ, १, २, ६, ७, १०, ११, २०, २४, २५, ३२-३४, ३८-४१, ४२-५४, ५६, ५८ त्रिष्टुभः। षष्ट्यचं सूक्तम्॥
इस भाष्य को एडिट करें