अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 54
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म प्रकरण सूक्त
गी॒र्भिरू॒र्ध्वान्क॑ल्पयि॒त्वा रोहि॑तो॒ भूमि॑मब्रवीत्। त्वयी॒दं सर्वं॑ जायतां॒ यद्भू॒तं यच्च॑ भा॒व्यम् ॥
स्वर सहित पद पाठगी॒ऽभि: । ऊ॒र्ध्वान् । क॒ल्प॒यि॒त्वा। रोहि॑त: । भूमि॑म् । अ॒ब्र॒वी॒त् । त्वयि॑ । इ॒दम् । सर्व॑म् । जा॒य॒ता॒म् । यत् । भू॒तम् । यत् । च॒ । भा॒व्य᳡म् ॥१.५४॥
स्वर रहित मन्त्र
गीर्भिरूर्ध्वान्कल्पयित्वा रोहितो भूमिमब्रवीत्। त्वयीदं सर्वं जायतां यद्भूतं यच्च भाव्यम् ॥
स्वर रहित पद पाठगीऽभि: । ऊर्ध्वान् । कल्पयित्वा। रोहित: । भूमिम् । अब्रवीत् । त्वयि । इदम् । सर्वम् । जायताम् । यत् । भूतम् । यत् । च । भाव्यम् ॥१.५४॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 54
विषय - ‘रोहित’ रूप से परमात्मा और राजा का वर्णन।
भावार्थ -
(गीर्भिः) अपनी उद्गिरण करने वाली शक्तियों से (ऊर्ध्वान्) उच्च प्रदेशों को (कल्पयित्वा) रचकर (रोहितः) सर्वोत्पादक परमात्मा (भूमिम्) भूमि के प्रति (अब्रवीत्) कहता है कि (यद् भूतं) जो उत्पन्न हुए और (यत् च भाव्यम्) जो उत्पन्न होने योग्य पदार्थ हैं (इदं सर्वम्) यह सर्व (त्वयि) तुझ में ही (जायताम्) उत्पन्न हों।
टिप्पणी -
(च०) ‘भव्यम्’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। रोहित आदित्यो देवता। अध्यात्मं सूक्तम्। ३ मरुतः, २८, ३१ अग्निः, ३१ बहुदेवता। ३-५, ९, १२ जगत्यः, १५ अतिजागतगर्भा जगती, ८ भुरिक्, १६, १७ पञ्चपदा ककुम्मती जगती, १३ अति शाक्वरगर्भातिजगती, १४ त्रिपदा पुरः परशाक्वरा विपरीतपादलक्ष्म्या पंक्तिः, १८, १९ ककुम्मत्यतिजगत्यौ, १८ पर शाक्वरा भुरिक्, १९ परातिजगती, २१ आर्षी निचृद् गायत्री, २२, २३, २७ प्रकृता विराट परोष्णिक्, २८-३०, ५५ ककुम्मती बृहतीगर्भा, ५७ ककुम्मती, ३१ पञ्चपदा ककुम्मती शाक्वरगर्भा जगती, ३५ उपरिष्टाद् बृहती, ३६ निचृन्महा बृहती, ३७ परशाक्वरा विराड् अतिजगती, ४२ विराड् जगती, ४३ विराड् महाबृहती, ४४ परोष्णिक्, ५९, ६० गायत्र्यौ, १, २, ६, ७, १०, ११, २०, २४, २५, ३२-३४, ३८-४१, ४२-५४, ५६, ५८ त्रिष्टुभः। षष्ट्यचं सूक्तम्॥
इस भाष्य को एडिट करें