1046 परिणाम मिले!
- आयुष्यँवर्चस्यँ रायस्पोषऔद्भिदम् । इदँ हिरण्यँवर्चस्वज्जैत्राया विशतादु माम् ॥ - Yajurveda/34/50
- आयोष्ट्वा सदने सादयाम्यवतश्छायायाँ समुद्रस्य हृदये । रश्मीवतीम्भास्वतीमा या द्याम्भास्या पृथिवीमोर्वन्तरिक्षम् ॥ - Yajurveda/15/63
- आरङ्गरेव मध्वेरयेथे सारघेव गवि नीचीनबारे । कीनारेव स्वेदमासिष्विदाना क्षामेवोर्जा सूयवसात्सचेथे ॥ - Rigveda/10/106/10
- आराच्छत्रुमप बाधस्व दूरमुग्रो यः शम्बः पुरुहूत तेन। अस्मे धेहि यवमद्गोमदिन्द्र कृधी धियं जरित्रे वाजरत्नाम् ॥ - Atharvaveda/20/89/0/7
- आराच्छत्रुमप बाधस्व दूरमुग्रो यः शम्ब: पुरुहूत तेन । अस्मे धेहि यवमद्गोमदिन्द्र कृधी धियं जरित्रे वाजरत्नाम् ॥ - Rigveda/10/42/7
- आरादरातिं निरृतिं परो ग्राहिं क्रव्यादः पिशाचान्। रक्षो यत्सर्वं दुर्भूतं तत्तम इवाप हन्मसि ॥ - Atharvaveda/8/2/0/12
- आरे अघा को न्वि१त्था ददर्श यं युञ्जन्ति तम्वा स्थापयन्ति । नास्मै तृणं नोदकमा भरन्त्युत्तरो धुरो वहति प्रदेदिशत् ॥ - Rigveda/10/102/10
- आरे अभूद्विषमरौद्विषे विषमप्रागपि। अग्निर्विषमहेर्निरधात्सोमो निरणयीत्। दंष्टारमन्वगाद्विषमहिरमृत ॥ - Atharvaveda/10/4/0/26
- आरे अस्मदमतिमारे अंह आरे विश्वां दुर्मतिं यन्निपासि। दोषा शिवः सहसः सूनो अग्ने यं देव आ चित्सचसे स्वस्ति ॥६॥ - Rigveda/4/11/6
- आरे ते गोघ्नमुत पूरुषघ्नं क्षयद्वीर सुम्नमस्मे ते अस्तु। मृळा च नो अधि च ब्रूहि देवाधा च न: शर्म यच्छ द्विबर्हा: ॥ - Rigveda/1/114/10
- आरे सा व: सुदानवो मरुत ऋञ्जती शरु:। आरे अश्मा यमस्यथ ॥ - Rigveda/1/172/2
- आरे३ ऽसावस्मदस्तु हेतिर्देवासो असत्। आरे अश्मा यमस्यथ ॥ - Atharvaveda/1/26/0/1
- आरोका इव घेदह तिग्मा अग्ने तव त्विष: । दद्भिर्वनानि बप्सति ॥ - Rigveda/8/43/3
- आरोहन्छुक्रो बृहतीरतन्द्रो द्वे रूपे कृणुते रोचमानः। चित्रश्चिकित्वान्महिषो वातमाया यावतो लोकानभि यद्विभाति ॥ - Atharvaveda/13/2/0/42
- आरोहन्द्याममृतः प्राव मे वचः। उत्त्वा यज्ञा ब्रह्मपूता वहन्त्यध्वगतो हरयस्त्वा वहन्ति ॥ - Atharvaveda/13/1/0/43
- आर्चन्नत्र मरुतः सस्मिन्नाजौ विश्वे देवासो अमदन्ननु त्वा। वृत्रस्य यद्भृष्टिमता वधेन नि त्वमिन्द्र प्रत्यानं जघन्थ ॥ - Rigveda/1/52/15
- आर्तिरवर्तिर्निरृतिः कुतो नु पुरुषेऽमतिः। राद्धिः समृद्धिरव्यृद्धिर्मतिरुदितयः कुतः ॥ - Atharvaveda/10/2/0/10
- आर्षेयेषु नि दध ओदन त्वा नानार्षेयाणामप्यस्त्यत्र। अग्निर्मे गोप्ता मरुतश्च सर्वे विश्वे देवा अभि रक्षन्तु पक्वम् ॥ - Atharvaveda/11/1/0/33
- आर्ष्टिषेणो होत्रमृषिर्निषीदन्देवापिर्देवसुमतिं चिकित्वान् । स उत्तरस्मादधरं समुद्रमपो दिव्या असृजद्वर्ष्या अभि ॥ - Rigveda/10/98/5
- आलाक्ता या रुरुशीर्ष्ण्यथो यस्या अयो मुखम्। इदं पर्जन्यरेतस इष्वै देव्यै बृहन्नमः ॥१५॥ - Rigveda/6/75/15
- आलापाश्च प्रलापाश्चाभीलापलपश्च ये। शरीरं सर्वे प्राविशन्नायुजः प्रयुजो युजः ॥ - Atharvaveda/11/8/0/25
- आलिगी च विलिगी च पिता च मता च। विद्म वः सर्वतो बन्ध्वरसाः किं करिष्यथ ॥ - Atharvaveda/5/13/0/7
- आवः कुत्समिन्द्र यस्मिञ्चाकन्प्रावो युध्यन्तं वृषभं दशद्युम् । शफच्युतो रेणुर्नक्षत द्यामुच्छ्वैत्रेयो नृषाह्याय तस्थौ ॥ - Rigveda/1/33/14
- आवः शमं वृषभं तुग्र्यासु क्षेत्रजेषे मघवञ्छ्वित्र्यं गाम् । ज्योक् चिदत्र तस्थिवांसो अक्रञ्छत्रूयतामधरा वेदनाकः ॥ - Rigveda/1/33/15
- आवतस्त आवतः परावतस्त आवतः। इहैव भव मा नु गा मा पूर्वाननु गाः पितॄनसुं बध्नामि ते दृढम् ॥ - Atharvaveda/5/30/0/1
- आवदंस्त्वं शकुने भद्रमा वद तूष्णीमासीनः सुमतिं चिकिद्धि नः। यदुत्पतन्वदसि कर्करिर्यथा बृहद्वदेम विदथे सुवीराः॥ - Rigveda/2/43/3
- आवदिन्द्रं यमुना तृत्सवश्च प्रात्र भेदं सर्वताता मुषायत्। अजासश्च शिग्रवो यक्षवश्च बलिं शीर्षाणि जभ्रुरश्व्यानि ॥१९॥ - Rigveda/7/18/19
- आवर्वृततीरध नु द्विधारा गोषुयुधो न नियवं चरन्तीः । ऋषे जनित्रीर्भुवनस्य पत्नीरपो वन्दस्व सवृध: सयोनीः ॥ - Rigveda/10/30/10
- आवहन्ती पोष्या वार्याणि चित्रं केतुं कृणुते चेकिताना। ईयुषीणामुपमा शश्वतीनां विभातीनां प्रथमोषा व्यश्वैत् ॥ - Rigveda/1/113/15
- आवहन्त्यरुणीर्ज्योतिषागान्मही चित्रा रश्मिभिश्चेकिताना। प्रबोधयन्ती सुविताय देव्यु१षा ईयते सुयुजा रथेन ॥३॥ - Rigveda/4/14/3
- आवामगन्त्सुमतिर्वाजिनीवसू न्यश्विना हृत्सु कामा अरंसत। अभूतं गोपामिथुना शुभस्पती प्रिया अर्यम्णो दुर्याँ अशीमहि ॥ - Atharvaveda/14/2/0/5
- आविः सन्निहितं गुहा जरन्नाम महत्पदम्। तत्रेदं सर्वमार्पितमेजत्प्राणत्प्रतिष्ठितम् ॥ - Atharvaveda/10/8/0/6
- आविरभून्महि माघोनमेषां विश्वं जीवं तमसो निरमोचि । महि ज्योति: पितृभिर्दत्तमागादुरुः पन्था दक्षिणाया अदर्शि ॥ - Rigveda/10/107/1
- आविरात्मानं कृणुते यदा स्थाम जिघांसति। अथो ह ब्रह्मभ्यो वशा याच्ञाय कृणुते मनः ॥ - Atharvaveda/12/4/0/30
- आविर्मयाऽआवित्तोऽअग्निर्गृहपतिरावित्तऽइन्द्रो वृद्धश्रवाऽआवित्तौ मित्रावरुणौ धृतव्रतावावित्तः पूषा विश्ववेदाऽआवित्ते द्यावापृथिवी विश्वशम्भुवावावित्तादितिरुरुशर्मा ॥ - Yajurveda/10/9
- आविर्मर्या आ वाजं वाजिनो अग्मन् देवस्य सवितुः सवम् । स्वर्गाꣳ अर्वन्तो जयत ॥४३५ - Samveda/435
- आविवासन्परावतो अथो अर्वावतः सुतः । इन्द्राय सिच्यते मधु ॥९०२॥ - Samveda/902
- आविवासन्परावतो अथो अर्वावत: सुतः । इन्द्राय सिच्यते मधु ॥ - Rigveda/9/39/5
- आविशन्कलशं सुतो विश्वा अर्षन्नभि श्रिय: । शूरो न गोषु तिष्ठति ॥ - Rigveda/9/62/19
- आविशन्कलशꣳ सुतो विश्वा अर्षन्नभि श्रियः । इन्दुरिन्द्राय धीयते ॥४८९॥ - Samveda/489
- आविष्कृणुष्व रूपाणि मात्मानमप गूहथाः। अथो सहस्रचक्षो त्वं प्रति पश्याः किमीदिनः ॥ - Atharvaveda/4/20/0/5
- आविष्टिताघविषा पृदाकूरिव चर्मणा। सा ब्राह्मणस्य राजन्य तृष्टैषा गौरनाद्या ॥ - Atharvaveda/5/18/0/3
- आविष्ट्यो वर्धते चारुरासु जिह्मानामूर्ध्वः स्वयशा उपस्थे। उभे त्वष्टुर्बिभ्यतुर्जायमानात्प्रतीची सिंहं प्रति जोषयेते ॥ - Rigveda/1/95/5
- आवो यस्य द्विबर्हसोऽर्केषु सानुषगसत्। आजाविन्द्रस्येन्दो प्रावो वाजेषु वाजिनम् ॥ - Rigveda/1/176/5
- आशरीकं विशरीकं बलासं पृष्ट्यामयम्। तक्मानं विश्वशारदमरसान् जङ्गिडस्करत् ॥ - Atharvaveda/19/34/0/10
- आशसनं विशसनमथो अधिविकर्तनम् । सूर्याया: पश्य रूपाणि तानि ब्रह्मा तु शुन्धति ॥ - Rigveda/10/85/35
- आशसनंविशसनमथो अधिविकर्तनम्। सूर्यायाः पश्य रूपाणि तानि ब्रह्मोतशुम्भति ॥ - Atharvaveda/14/1/0/28
- आशानामाशापालेभ्यश्चतुर्भ्यो अमृतेभ्यः। इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम् ॥ - Atharvaveda/1/31/0/1
- आशामाशां वि द्योततां वाता वान्तु दिशोदिशः। मरुद्भिः प्रच्युता मेघाः सं यन्तु पृथिवीमनु ॥ - Atharvaveda/4/15/0/8
- आशासमानासौमनसं प्रजां सौभाग्यं रयिम्। पत्युरनुव्रता भूत्वा संनह्यस्वामृताय कम् ॥ - Atharvaveda/14/1/0/42