Loading...

552 परिणाम मिले!

  • कदू महीरधृष्टा अस्य तविषी: कदु वृत्रघ्नो अस्तृतम् । इन्द्रो विश्वान्बेकनाटाँ अहर्दृश उत क्रत्वा पणीँरभि ॥ - Rigveda/8/66/10
  • कद्ध नूनं कधप्रियः पिता पुत्रं न हस्तयोः । दधिध्वे वृक्तबर्हिषः ॥ - Rigveda/1/38/1
  • कद्ध नूनं कधप्रियो यदिन्द्रमजहातन । को व: सखित्व ओहते ॥ - Rigveda/8/7/31
  • कद्धिष्ण्यासु वृधसानो अग्ने कद्वाताय प्रतवसे शुभंये। परिज्मने नासत्याय क्षे ब्रवः कदग्ने रुद्राय नृघ्ने ॥६॥ - Rigveda/4/3/6
  • कद्रुद्राय प्रचेतसे मीळ्हुष्टमाय तव्यसे । वोचेम शंतमं हृदे ॥ - Rigveda/1/43/1
  • कद्व ऋतस्य धर्णसि कद्वरुणस्य चक्षणम्। कदर्यम्णो महस्पथाति क्रामेम दूढ्यो वित्तं मे अस्य रोदसी ॥ - Rigveda/1/105/6
  • कद्वो अद्य महानां देवानामवो वृणे । त्मना च दस्मवर्चसाम् ॥ - Rigveda/8/94/8
  • कनिक्रदज्जनुषं प्रब्रुवाण इयर्ति वाचमरितेव नावम्। सुमङ्गलश्च शकुने भवासि मा त्वा का चिदभिभा विश्व्या विदत्॥ - Rigveda/2/42/1
  • कनिक्रदत्कलशे गोभिरज्यसे व्य१व्ययं समया वारमर्षसि । मर्मृज्यमानो अत्यो न सानसिरिन्द्रस्य सोम जठरे समक्षरः ॥ - Rigveda/9/85/5
  • कनिक्रददनु पन्थामृतस्य शुक्रो वि भास्यमृतस्य धाम । स इन्द्राय पवसे मत्सरवान्हिन्वानो वाचं मतिभि: कवीनाम् ॥ - Rigveda/9/97/32
  • कनिक्रन्ति हरिरा सृज्यमानः सीदन्वनस्य जठरे पुनानः । नृभिर्यतः कृणुते निर्णिजं गामतो मतिं जनयत स्वधाभिः ॥५३०॥ - Samveda/530
  • कनिक्रन्ति हरिरा सृज्यमान: सीदन्वनस्य जठरऋ पुनानः । नृभिर्यतः कृणुते निर्णिजं गा अतो मतीर्जनयत स्वधाभि: ॥ - Rigveda/9/95/1
  • कनीनकेव विद्रधे नवे द्रुपदे अर्भके। बभ्रू यामेषु शोभेते ॥२३॥ - Rigveda/4/32/23
  • कन्नव्यो अतसीनां तुरो गृणीत मर्त्य: । नही न्वस्य महिमानमिन्द्रियं स्वर्गृणन्त आनशुः ॥ - Rigveda/8/3/13
  • कन्नव्यो अतसीनां तुरो गृणीत मर्त्यः। नही न्वस्य महिमानमिन्द्रियं स्वर्गृणन्त आनशुः ॥ - Atharvaveda/20/50/0/1
  • कन्या३ वारवायती सोममपि स्रुताविदत् । अस्तं भरन्त्यब्रवीदिन्द्राय सुनवै त्वा शक्राय सुनवै त्वा ॥ - Rigveda/8/91/1
  • कन्याइव वहतुमेतवा उ अञ्ज्यञ्जाना अभि चाकशीमि। यत्र सोमः सूयते यत्र यज्ञो घृतस्य धारा अभि तत्पवन्ते ॥९॥ - Rigveda/4/58/9
  • कन्याऽइव वहतुमेतवाऽउऽअञ्ज्यञ्जानाऽअभि चाकशीमि । यत्र सोमः सूयते यत्र यज्ञो घृतस्य धाराऽअभि तत्पवन्ते॥ - Yajurveda/17/97
  • कन्येव तन्वा३ शाशदानाँ एषि देवि देवमियक्षमाणम्। संस्मयमाना युवतिः पुरस्तादाविर्वक्षांसि कृणुषे विभाती ॥ - Rigveda/1/123/10
  • कपृन्नरः कपृथमुद्दधातन चोदयत खुदत वाजसातये । निष्टिग्र्य: पुत्रमा च्यावयोतय इन्द्रं सबाध इह सोमपीतये ॥ - Rigveda/10/101/12
  • कपृन्नरः कपृथमुद्दधातन चोदयत खुदत वाजसातये। निष्टिग्र्य: पुत्रमा च्यावयोतय इन्द्रं सबाध इह सोमपीतये ॥ - Atharvaveda/20/137/0/2
  • कब्रु फलीकरणाः शरोऽभ्रम् ॥ - Atharvaveda/11/3/0/6
  • कमु ष्विदस्य सेनयाग्नेरपाकचक्षसः । पणिं गोषु स्तरामहे ॥ - Rigveda/8/75/7
  • कमेतं त्वं युवते कुमारं पेषी बिभर्षि महिषी जजान। पूर्वार्हि गर्भः शरदो ववर्धापश्यं जातं यदसूत माता ॥२॥ - Rigveda/5/2/2
  • कया तच्छृण्वे शच्या शचिष्ठो यया कृणोति मुहु का चिदृष्वः। पुरु दाशुषे विचयिष्ठो अंहोऽथा दधाति द्रविणं जरित्रे ॥९॥ - Rigveda/4/20/9
  • कया ते अग्ने अङ्गिर ऊर्जो नपादुपस्तुतिम् । वराय देव मन्यवे ॥ - Rigveda/8/84/4
  • कया ते अग्ने अङ्गिर ऊर्जो नपादुपस्तुतिम् । वराय देव मन्यवे ॥१५४९॥ - Samveda/1549
  • कया त्वं न ऊत्याभि प्र मन्दसे वृषन् । कया स्तोतृभ्य आ भर ॥ - Rigveda/8/93/19
  • कया त्वं न ऊत्याभि प्र मन्दसे वृषन् । कया स्तोतृभ्य आ भर ॥१५८६॥ - Samveda/1586
  • कया त्वम्नऽऊत्याभि प्र मन्दसे वृषन् । कया स्तोतृभ्य आ भर ॥ - Yajurveda/36/7
  • कया नश्चित्र आ भुवदूती सदावृधः सखा । कया शचिष्ठया वृता ॥ - Yajurveda/36/4
  • कया नश्चित्र आ भुवदूती सदावृधः सखा । कया शचिष्ठया वृता ॥१६९॥ - Samveda/169
  • कया नश्चित्र आ भुवदूती सदावृधः सखा । कया शचिष्ठया वृता ॥६८२॥ - Samveda/682
  • कया नश्चित्र आ भुवदूती सदावृधः सखा। कया शचिष्ठया वृता ॥ - Atharvaveda/20/124/0/1
  • कया नश्चित्र आ भुवदूती सदावृधः सखा। कया शचिष्ठया वृता ॥१॥ - Rigveda/4/31/1
  • कया नश्चित्रऽआ भुवदूती सदावृधः सखा । कया शचिष्ठया वृता ॥ - Yajurveda/27/39
  • कया नो अग्न ऋतयन्नृतेन भुवो नवेदा उचथस्य नव्यः। वेदा मे देव ऋतुपा ऋतूनां नाहं पतिं सनितुरस्य रायः ॥३॥ - Rigveda/5/12/3
  • कया नो अग्ने वि वसः सुवृक्तिं कामु स्वधामृणवः शस्यमानः। कदा भवेम पतयः सुदत्र रायो वन्तारो दुष्टरस्य साधोः ॥३॥ - Rigveda/7/8/3
  • कया शुभा सवयस: सनीळाः समान्या मरुत: सं मिमिक्षुः। कया मती कुत एतास एतेऽर्चन्ति शुष्मं वृषणो वसूया ॥ - Rigveda/1/165/1
  • करम्भ ओषधे भव पीवो वृक्क उदारथिः। वातापे पीव इद्भव ॥ - Rigveda/1/187/10
  • करम्भं कृत्वा तिर्यं पीबस्पाकमुदारथिम्। क्षुधा किल त्वा दुष्टनो जक्षिवान्त्स न रूरुपः ॥ - Atharvaveda/4/7/0/3
  • करीषिणीं फलवतीं स्वधामिरां च नो गृहे। औदुम्बरस्य तेजसा धाता पुष्टिं दधातु मे ॥ - Atharvaveda/19/31/0/3
  • कर्करिको निखातकः ॥ - Atharvaveda/20/132/0/3
  • कर्णगृह्या मघवा शौरदेव्यो वत्सं नस्त्रिभ्य आनयत् । अजां सूरिर्न धातवे ॥ - Rigveda/8/70/15
  • कर्णा श्वावित्तदब्रवीद्गिरेरवचरन्तिका। याः काश्चेमाः खनित्रिमास्तासामरसतमं विषम् ॥ - Atharvaveda/5/13/0/9
  • कर्णाभ्यां ते कङ्कूषेभ्यः कर्णशूलं विसल्पकम्। सर्वं शीर्षर्ण्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥ - Atharvaveda/9/8/0/2
  • कर्शफस्य विशफस्य द्यौः पिता पृथिवी माता। यथाभिचक्र देवास्तथाप कृणुता पुनः ॥ - Atharvaveda/3/9/0/1
  • कर्षेदेनं नचैनं कर्षेत् ॥ - Atharvaveda/15/13/0/12
  • कर्हि स्वित्तदिन्द्र यज्जरित्रे विश्वप्सु ब्रह्म कृणवः शविष्ठ। कदा धियो न नियुतो युवासे कदा गोमघा हवनानि गच्छाः ॥३॥ - Rigveda/6/35/3
  • कर्हि स्वित्तदिन्द्र यन्नृभिर्नॄन्वीरैर्वीरान्नीळयासे जयाजीन्। त्रिधातु गा अधि जयासि गोष्विन्द्र द्युम्नं स्वर्वद्धेह्यस्मे ॥२॥ - Rigveda/6/35/2
Top