1621 परिणाम मिले!
- पुनर्मनः पुनरायुर्म आगन्पुनः प्राणः पुनरात्मा म आगन्पुनश्चक्षुः पुनः श्रोत्रम्म आगन् । वैश्वानरो अदब्धस्तनूपा अग्निर्नः पातु दुरितादवद्यात् ॥ - Yajurveda/4/15
- पुनर्मैत्विन्द्रियं पुनरात्मा द्रविणं ब्राह्मणं च। पुनरग्नयो धिष्ण्या यथास्थाम कल्पयन्तामिहैव ॥ - Atharvaveda/7/67/0/1
- पुनर्ये चक्रुः पितरा युवाना सना यूपेव जरणा शयाना। ते वाजो विभ्वाँ ऋभुरिन्द्रवन्तो मधुप्सरसो नोऽवन्तु यज्ञम् ॥३॥ - Rigveda/4/33/3
- पुनर्वै देवा अददुः पुनर्मनुष्या अददुः। राजानः सत्यं गृह्णाना ब्रह्मजायां पुनर्ददुः ॥ - Atharvaveda/5/17/0/10
- पुनर्वै देवा अददु: पुनर्मनुष्या उत । राजानः सत्यं कृण्वाना ब्रह्मजायां पुनर्ददुः ॥ - Rigveda/10/109/6
- पुनस्त्वा दुरप्सरसः पुनरिन्द्रः पुनर्भगः। पुनस्त्वा दुर्विश्वे देवा यथानुन्मदितोऽससि ॥ - Atharvaveda/6/111/0/4
- पुनस्त्वादित्या रुद्रा वसवः पुनर्ब्रह्मा वसुनीतिरग्ने। पुनस्त्वा ब्रह्मणस्पतिराधाद्दीर्घायुत्वाय शतशारदाय ॥ - Atharvaveda/12/2/0/6
- पुनस्त्वादित्या रुद्रा वसवः समिन्धतान्पुनर्ब्रह्माणो वसुनीथ यज्ञैः । घृतेन त्वँतन्वँवर्धयस्व सत्याः सन्तु यजमानस्य कामाः ॥ - Yajurveda/12/44
- पुनाता दक्षसाधनं यथा शर्धाय वीतये । यथा मित्राय वरुणाय शंतमः ॥ - Rigveda/9/104/3
- पुनाता दक्षसाधनं यथा शर्धाय वीतये । यथा मित्राय वरुणाय शन्तमम् ॥११५९॥ - Samveda/1159
- पुनाति ते परिस्रुतं सोमं सूर्यस्य दुहिता । वारेण शश्वता तना ॥ - Rigveda/9/1/6
- पुनाति ते परिस्रुतँ सोमँ सूर्यस्य दुहिता । वारेण शश्वता तना ॥ - Yajurveda/19/4
- पुनान इन्दवा भर सोम द्विबर्हसं रयिम् । त्वं वसूनि पुष्यसि विश्वानि दाशुषो गृहे ॥ - Rigveda/9/100/2
- पुनान इन्दवा भर सोम द्विबर्हसं रयिम् । वृषन्निन्दो न उक्थ्यम् ॥ - Rigveda/9/40/6
- पुनान इन्दवेषां पुरुहूत जनानाम् । प्रियः समुद्रमा विश ॥ - Rigveda/9/64/27
- पुनानः कलशेष्वा वस्त्राण्यरुषो हरिः । परि गव्यान्यव्यत ॥११८३॥ - Samveda/1183
- पुनानः कलशेष्वा वस्त्राण्यरुषो हरि: । परि गव्यान्यव्यत ॥ - Rigveda/9/8/6
- पुनानः सोम जागृविरव्या वारैः परि प्रियः । त्वं विप्रो अभवोऽङ्गिरस्तम मध्वा यज्ञं मिमिक्ष णः ॥५१९॥ - Samveda/519
- पुनानः सोम जागृविरव्यो वारे परि प्रियः । त्वं विप्रो अभवोऽङ्गिरस्तमो मध्वा यज्ञं मिमिक्ष नः ॥ - Rigveda/9/107/6
- पुनानः सोम धारयापो वसानो अर्षसि । आ रत्नधा योनिमृतस्य सीदस्युत्सो देव हिरण्यय: ॥ - Rigveda/9/107/4
- पुनानः सोम धारयापो वसानो अर्षसि । आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः ॥५११॥ - Samveda/511
- पुनानः सोम धारयापो वसानो अर्षसि । आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः ॥६७५॥ - Samveda/675
- पुनानः सोम धारयेन्दो विश्वा अप स्रिध: । जहि रक्षांसि सुक्रतो ॥ - Rigveda/9/63/28
- पुनानश्चमू जनयन्मतिं कविः सोमो देवेषु रण्यति । अपो वसान: परि गोभिरुत्तर: सीदन्वनेष्वव्यत ॥ - Rigveda/9/107/18
- पुनानासश्चमूषदो गच्छन्तो वायुमश्विना । ते नो धत्त सुवीर्यम् ॥११७९॥ - Samveda/1179
- पुनानासश्चमूषदो गच्छन्तो वायुमश्विना । ते नो धान्तु सुवीर्यम् ॥ - Rigveda/9/8/2
- पुनाने तन्वा मिथः स्वेन दक्षेण राजथः । ऊह्याथे सनादृतम् ॥१५९७॥ - Samveda/1597
- पुनाने तन्वा मिथः स्वेन दक्षेण राजथः। ऊह्याथे सनादृतम् ॥६॥ - Rigveda/4/56/6
- पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः । शुम्भन्ति विप्रं धीतिभिः ॥४८८॥ - Samveda/488
- पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः । शुम्भन्ति विप्रं धीतिभिः ॥९२४॥ - Samveda/924
- पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः । शुम्भन्ति विप्रं धीतिभि: ॥ - Rigveda/9/40/1
- पुनानो देववीतय इन्द्रस्य याहि निष्कृतम् । द्युतानो वाजिभिर्यतः ॥ - Rigveda/9/64/15
- पुनानो देववीतय इन्द्रस्य याहि निष्कृतम् । द्युतानो वाजिभिर्हितः ॥८४३॥ - Samveda/843
- पुनानो याति हर्यतः सोमो गीर्भिः परिष्कृतः । विप्रस्य मेध्यातिथेः ॥ - Rigveda/9/43/3
- पुनानो रूपे अव्यये विश्वा अर्षन्नभि श्रिय: । शूरो न गोषु तिष्ठति ॥ - Rigveda/9/16/6
- पुनानो वरिवस्कृध्यूर्जं जनाय गिर्वणः । हरे सृजान आशिरम् ॥ - Rigveda/9/64/14
- पुनानो वरिवस्कृध्यूर्जं जनाय गिर्वणः । हरे सृजान आशिरम् ॥८४२॥ - Samveda/842
- पुनानो वारे पवमानो अव्यये वृषो अचिक्रदद्वने । देवानाꣳ सोम पवमान निष्कृतं गोभिरञ्जानो अर्षसि ॥१०८० - Samveda/1080
- पुनीषे वामरक्षसं मनीषां सोममिन्द्राय वरुणाय जुह्वत् । घृतप्रतीकामुषसं न देवीं ता नो यामन्नुरुष्यतामभीके ॥ - Rigveda/7/85/1
- पुमाँ एनं तनुत उत्कृणत्ति पुमान्वि तत्ने अधि नाके अस्मिन् । इमे मयूखा उप सेदुरू सद: सामानि चक्रुस्तसराण्योतवे ॥ - Rigveda/10/130/2
- पुमां कुस्ते निमिच्छसि ॥ - Atharvaveda/20/129/0/14
- पुमानन्तर्वान्त्स्थविरः पयस्वान्वसोः कबन्धमृषभो बिभर्ति। तमिन्द्राय पथिभिर्देवयानैर्हुतमग्निर्वहतु जातवेदाः ॥ - Atharvaveda/9/4/0/3
- पुमान्पुंसः परिजातोऽश्वत्थः खदिरादधि। स हन्तु शत्रून्मामकान्यानहं द्वेष्मि ये च माम् ॥ - Atharvaveda/3/6/0/1
- पुमान्पुंसोऽधि तिष्ठ चर्मेहि तत्र ह्वयस्व यतमा प्रिया ते। यावन्तावग्रे प्रथमं समेयथुस्तद्वां वयो यमराज्ये समानम् ॥ - Atharvaveda/12/3/0/1
- पुमांसं पुत्रं जनय तं पुमाननु जायताम्। भवासि पुत्राणां माता जातानां जनयाश्च यान् ॥ - Atharvaveda/3/23/0/3
- पुरं देवानाममृतं हिरण्यं य आबेधे प्रथमो देवो अग्रे। तस्मै नमो दश प्राचीः कृणोम्यनु मन्यतां त्रिवृदाबधे मे ॥ - Atharvaveda/5/28/0/11
- पुरं न धृष्णवा रुज कृष्णया बाधितो विशा । अन्ति षद्भूतु वामव: ॥ - Rigveda/8/73/18
- पुरः सद्य इत्थाधिये दिवोदासाय शम्बरम् । अध त्यं तुर्वशं यदुम् ॥१२११॥ - Samveda/1211
- पुर: सद्य इत्थाधिये दिवोदासाय शम्बरम् । अध त्यं तुर्वशं यदुम् ॥ - Rigveda/9/61/2
- पुरंदरा शिक्षतं वज्रहस्तास्माँ इन्द्राग्नी अवतं भरेषु। तन्नो मित्रो वरुणो मामहन्तामदिति: सिन्धु: पृथिवी उत द्यौः ॥ - Rigveda/1/109/8