1621 परिणाम मिले!
- प्र पर्वतानामुशती उपस्थादश्वेइव विषिते हासमाने। गावेव शुभ्रे मातरा रिहाणे विपाट्छुतुद्री पयसा जवेते॥ - Rigveda/3/33/1
- प्र पवमान धन्वसि सोमेन्द्राय पातवे । नृभिर्यतो वि नीयसे ॥ - Rigveda/9/24/3
- प्र पवमान धन्वसि सोमेन्द्राय मादनः । नृभिर्यतो वि नीयसे ॥९६३॥ - Samveda/963
- प्र पस्त्या३मदितिं सिन्धुमर्कैः स्वस्तिमीळे सख्याय देवीम्। उभे यथा नो अहनी निपात उषासानक्ता करतामदब्धे ॥३॥ - Rigveda/4/55/3
- प्र पादौ न यथायति प्र हस्तौ न यथाशिषत्। यो मलिम्लुरुपायति स संपिष्टो अपायति। अपायति स्वपायति शुष्के स्थाणावपायति ॥ - Atharvaveda/19/49/0/10
- प्र पितृयाणंपन्थां जानाति प्र देवयानम् ॥ - Atharvaveda/15/12/0/5
- प्र पीपय वृषभ जिन्व वाजानग्ने त्वं रोदसी नः सुदोघे। देवेभिर्देव सुरुचा रुचानो मा नो मर्तस्य दुर्मतिः परि ष्ठात्॥ - Rigveda/3/15/6
- प्र पुनानस्य चेतसा सोम: पवित्रे अर्षति । क्रत्वा सधस्थमासदत् ॥ - Rigveda/9/16/4
- प्र पुनानाय वेधसे सोमाय वच उच्यते । भृतिं न भरा मतिभिर्जुजोषते ॥५७३॥ - Samveda/573
- प्र पुनानाय वेधसे सोमाय वच उद्यतम् । भृतिं न भरा मतिभिर्जुजोषते ॥ - Rigveda/9/103/1
- प्र पूतास्तिग्मशोचिषे वाचो गोतमाग्नये। भरस्व सुम्नयुर्गिरः ॥ - Rigveda/1/79/10
- प्र पूर्वजे पितरा नव्यसीभिर्गीर्भिः कृणुध्वं सदने ऋतस्य। आ नो द्यावापृथिवी दैव्येन जनेन यातं महि वां वरूथम् ॥२॥ - Rigveda/7/53/2
- प्र पूषणं वृणीमहे युज्याय पुरूवसुम् । स शक्र शिक्ष पुरुहूत नो धिया तुजे राये विमोचन ॥ - Rigveda/8/4/15
- प्र प्यायस्व प्र स्यन्दस्व सोम विश्वेभिरंशुभि: । देवेभ्य उत्तमं हविः ॥ - Rigveda/9/67/28
- प्र बभ्रवे वृषभाय श्वितीचे महो महीं सुष्टुतिमीरयामि। नमस्या कल्मलीकिनं नमोभिर्गृणीमसि त्वेषं रुद्रस्य नाम॥ - Rigveda/2/33/8
- प्र बाहवा सिसृतं जीवसे न आ नो गव्यूतिमुक्षतं घृतेन । आ नो जने श्रवयतं युवाना श्रुतं मे मित्रावरुणा हवेमा ॥ - Rigveda/7/62/5
- प्र बाहवा सिसृतञ्जीवसे नऽआ नो गव्यूतिमुक्षतङ्घृतेन । आ मा जने श्रवयतँयुवाना श्रुतम्मे मित्रावरुणा हवेमा ॥ - Yajurveda/21/9
- प्र बुध्न्या व ईरते महांसि प्र नामानि प्रयज्यवस्तिरध्वम्। सहस्रियं दम्यं भागमेतं गृहमेधीयं मरुतो जुषध्वम् ॥१४॥ - Rigveda/7/56/14
- प्र बुध्यस्वसुबुधा बुध्यमाना दीर्घायुत्वाय शतशारदाय। गृहान्गच्छ गृहपत्नीयथासो दीर्घं त आयुः सविता कृणोतु ॥ - Atharvaveda/14/2/0/75
- प्र बोधयोषः पृणतो मघोन्यबुध्यमानाः पणय: ससन्तु। रेवदुच्छ मघवद्भ्यो मघोनि रेवत्स्तोत्रे सूनृते जारयन्ती ॥ - Rigveda/1/124/10
- प्र बोधयोषो अश्विना प्र देवि सूनृते महि । प्र यज्ञहोतरानुषक्प्र मदाय श्रवो बृहत् ॥ - Rigveda/8/9/17
- प्र बोधयोषो अश्विना प्र देवि सूनृते महि। प्र यज्ञहोतरानुषक्प्र मदाय श्रवो बृहत् ॥ - Atharvaveda/20/142/0/2
- प्र ब्रह्माणि नभाकवदिन्द्राग्निभ्यामिरज्यत । या सप्तबुध्नमर्णवं जिह्मबारमपोर्णुत इन्द्र ईशान ओजसा नभन्तामन्यके समे ॥ - Rigveda/8/40/5
- प्र ब्रह्माणो अङ्गिरसो नक्षन्त प्र क्रन्दनुर्नभन्यस्य वेतु। प्र धेनव उदप्रुतो नवन्त युज्यातामद्री अध्वरस्य पेशः ॥१॥ - Rigveda/7/42/1
- प्र ब्रह्मैतु सदनादृतस्य वि रश्मिभिः ससृजे सूर्यो गाः। वि सानुना पृथिवी सस्र उर्वी पृथु प्रतीकमध्येधे अग्निः ॥१॥ - Rigveda/7/36/1
- प्र भूर्जयन्तं महां विपोधां मूरा अमूरं पुरां दर्माणम् । नयन्तो गर्भं वनां धियं धुर्हिरिश्मश्रुं नार्वाणं धनर्चम् ॥ - Rigveda/10/46/5
- प्र भूर्जयन्तं महां विपोधां मूरैरमूरं पुरां दर्माणम् । नयन्तं गीर्भिर्वना धियं धा हरिश्मश्रुं न वर्मणा धनर्चिम् ॥७४॥ - Samveda/74
- प्र भ्रातृत्वं सुदानवोऽध द्विता समान्या । मातुर्गर्भे भरामहे ॥ - Rigveda/8/83/8
- प्र मन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना । अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तꣳ सख्याय हुवेमहि ॥३८०॥ - Samveda/380
- प्र मन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना। अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तं सख्याय हवामहे ॥ - Rigveda/1/101/1
- प्र मन्महे शवसानाय शूषमाङ्गूषं गिर्वणसे अङ्गिरस्वत्। सुवृक्तिभिः स्तुवत ऋग्मियायार्चामार्कं नरे विश्रुताय ॥ - Rigveda/1/62/1
- प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे । उपस्तुतासो अग्नये ॥ - Rigveda/8/103/8
- प्र मंहिष्ठाय बृहते बृहद्रये सत्यशुष्माय तवसे मतिं भरे। अपामिव प्रवणे यस्य दुर्धरं राधो विश्वायु शवसे अपावृतम् ॥ - Rigveda/1/57/1
- प्र मंहिष्ठाय बृहते बृहद्रये सत्यशुष्माय तवसे मतिं भरे। अपामिव प्रवणे यस्य दुर्धरं राधो विश्वायु शवसे अपावृतम् ॥ - Atharvaveda/20/15/0/1
- प्र मा युयुज्रे प्रयुजो जनानां वहामि स्म पूषणमन्तरेण । विश्वे देवासो अध मामरक्षन्दु:शासुरागादिति घोष आसीत् ॥ - Rigveda/10/33/1
- प्र मातुः प्रतरं गुह्यमिच्छन्कुमारो न वीरुध: सर्पदुर्वीः । ससं न पक्वमविदच्छुचन्तं रिरिह्वांसं रिप उपस्थे अन्तः ॥ - Rigveda/10/79/3
- प्र मात्राभी रिरिचे रोचमानः प्र देवेभिर्विश्वतो अप्रतीतः। प्र मज्मना दिव इन्द्रः पृथिव्याः प्रोरोर्महो अन्तरिक्षादृजीषी॥ - Rigveda/3/46/3
- प्र मित्रयोर्वरुणयो: स्तोमो न एतु शूष्य: । नमस्वान्तुविजातयो: ॥ - Rigveda/7/66/1
- प्र मित्राय प्रार्यम्णे सचथ्यमृतावसो । वरूथ्यं१ वरुणे छन्द्यं वच: स्तोत्रं राजसु गायत ॥ - Rigveda/8/101/5
- प्र मित्राय प्रार्यम्णे सचथ्यमृतावसो । वरूथ्ये३ वरुणे छन्द्यं वचः स्तोत्रꣳ राजसु गायत ॥२५५॥ - Samveda/255
- प्र मे नमी साप्य इषे भुजे भूद्गवामेषे सख्या कृणुत द्विता । दिद्युं यदस्य समिथेषु मंहयमादिदेनं शंस्यमुक्थ्यं करम् ॥ - Rigveda/10/48/9
- प्र मे पन्था देवयाना अदृश्रन्नमर्धन्तो वसुभिरिष्कृतासः । अभूदु केतुरुषस: पुरस्तात्प्रतीच्यागादधि हर्म्येभ्य: ॥ - Rigveda/7/76/2
- प्र मे विविक्वाँ अविदन्मनीषां धेनुं चरन्तीं प्रयुतामगोपाम्। सद्यश्चिद्या दुदुहे भूरि धासेरिन्द्रस्तदग्निः पनितारो अस्याः॥ - Rigveda/3/57/1
- प्र मꣳहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे । उपस्तुतासो अग्नये ॥१०७॥ - Samveda/107
- प्र मꣳहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे । उपस्तुतासो अग्नये ॥८७८॥ - Samveda/878
- प्र य आरुः शितिपृष्ठस्य धासेरा मातरा विविशुः सप्त वाणीः। परिक्षिता पितरा सं चरेते प्र सर्स्राते दीर्घमायुः प्रयक्षे॥ - Rigveda/3/7/1
- प्र यं राये निनीषसि मर्तो यस्ते वसो दाशत् । स वीरं धत्ते अग्न उक्थशंसिनं त्मना सहस्रपोषिणम् ॥ - Rigveda/8/103/4
- प्र यच्छ पर्शुं त्वरया हरौषमहिंसन्त ओषधीर्दान्तु पर्वन्। यासां सोमः परि राज्यं बभूवामन्युता नो वीरुधो भवन्तु ॥ - Atharvaveda/12/3/0/31
- प्र यज्ञ एतु हेत्वो न सप्तिरुद्यच्छध्वं समनसो घृताचीः। स्तृणीत बर्हिरध्वराय साधूर्ध्वा शोचींषि देवयून्यस्थुः ॥२॥ - Rigveda/7/43/2
- प्र यज्ञ एत्वानुषगद्या देवव्यचस्तमः। स्तृणीत बर्हिरासदे ॥८॥ - Rigveda/5/26/8