अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 26
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
आ य॑न्ति दि॒वः पृ॑थि॒वीं स॑चन्ते॒ भूम्याः॑ सचन्ते॒ अध्य॒न्तरि॑क्षम्। शु॒द्धाः स॒तीस्ता उ॑ शुम्भन्त ए॒व ता नः॑ स्व॒र्गम॒भि लो॒कं न॑यन्तु ॥
स्वर सहित पद पाठआ । य॒न्ति॒ । दि॒व: । पृ॒थि॒वीम् । स॒च॒न्ते॒ । भूम्या॑: । स॒च॒न्ते॒ । अधि॑ । अ॒न्तरि॑क्षम् । शु॒ध्दा: । स॒ती: । ता: । ऊं॒ इति॑ । शुम्भ॑न्ते । ए॒व । ता: । न॒: । स्व॒:ऽगम् । अ॒भि । लो॒कम् । न॒य॒न्तु॒ ॥३..२६॥
स्वर रहित मन्त्र
आ यन्ति दिवः पृथिवीं सचन्ते भूम्याः सचन्ते अध्यन्तरिक्षम्। शुद्धाः सतीस्ता उ शुम्भन्त एव ता नः स्वर्गमभि लोकं नयन्तु ॥
स्वर रहित पद पाठआ । यन्ति । दिव: । पृथिवीम् । सचन्ते । भूम्या: । सचन्ते । अधि । अन्तरिक्षम् । शुध्दा: । सती: । ता: । ऊं इति । शुम्भन्ते । एव । ता: । न: । स्व:ऽगम् । अभि । लोकम् । नयन्तु ॥३..२६॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 26
भाषार्थ -
जल (दिवः आयन्ति) द्युलोक से आते हैं, (पृथिवीं सचन्ते) और पृथिवी पर इकट्ठे होते हैं (भूम्या अधि) भूमि से (अन्तरिक्षम् सचन्ते) अन्तरिक्ष में इकट्ठे होते हैं। (शुद्धाः सतीः एव) शुद्ध होते हुए ही (ताः) वे जल (उ) निश्चय से (शुम्भन्ते) सुशोभित होते हैं। (ताः) वे जल (नः) हमें (स्वर्गम् लोकम्१ अभि) स्वर्ग लोक की ओर (नयन्तु) ले चलें, अर्थात् हमें सुख पहुंचाएँ। [स्वर्गम् = स्वः (सुख) + ग (प्राप्ति); गतेस्त्रयोऽर्थाः; ज्ञानं, गतिः, प्रातिश्च]। [१. अथवा हमारे गृहस्थ लोक या पृथिवी लोक को स्वर्गीयावस्था तक पहुंचाए। जहां जल नहीं वह नरकधाम है। जहां जल है वह स्वर्गधाम है।]