अथर्ववेद - काण्ड 11/ सूक्त 1/ मन्त्र 14
सूक्त - ब्रह्मा
देवता - ब्रह्मौदनः
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मौदन सूक्त
एमा अ॑गुर्यो॒षितः॒ शुम्भ॑माना॒ उत्ति॑ष्ठ नारि त॒वसं॑ रभस्व। सु॒पत्नी॒ पत्या॑ प्र॒जया॑ प्र॒जाव॒त्या त्वा॑गन्य॒ज्ञः प्रति॑ कु॒म्भं गृ॑भाय ॥
स्वर सहित पद पाठआ । इ॒मा: । अ॒गु॒: । यो॒षित॑: । शुम्भ॑माना: । उत् । ति॒ष्ठ॒ । ना॒रि॒ । त॒वस॑म् । र॒भ॒स्व॒ । सु॒ऽपत्नी॑ । पत्या॑ । प्र॒ऽजया॑ । प्र॒जाऽव॑ती । आ । त्वा॒ । अ॒ग॒न् । य॒ज्ञ: । प्रति॑ । कु॒म्भम् । गृ॒भा॒य॒ ॥१.१४॥
स्वर रहित मन्त्र
एमा अगुर्योषितः शुम्भमाना उत्तिष्ठ नारि तवसं रभस्व। सुपत्नी पत्या प्रजया प्रजावत्या त्वागन्यज्ञः प्रति कुम्भं गृभाय ॥
स्वर रहित पद पाठआ । इमा: । अगु: । योषित: । शुम्भमाना: । उत् । तिष्ठ । नारि । तवसम् । रभस्व । सुऽपत्नी । पत्या । प्रऽजया । प्रजाऽवती । आ । त्वा । अगन् । यज्ञ: । प्रति । कुम्भम् । गृभाय ॥१.१४॥
अथर्ववेद - काण्ड » 11; सूक्त » 1; मन्त्र » 14
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १४−(आ अगुः) आगमन् (इमाः) (योषितः) अ० १।१७।१। सेव्याः स्त्रियः (शुम्भमानाः) शोभनगुणवत्यः (उत्तिष्ठ) उत्थिता भव (नारि) म० १३। हे शक्तिमति स्त्रि (तवसम्) तवस्-अर्शआद्यच्। तवो बलनाम-निघ० २।९। बलयुक्तं व्यवहारम् (रभस्व) आरम्भितं कुरु (सुपत्नी) पत्नीनां श्रेष्ठतमा (पत्या) श्रेष्ठसन्तानेन सह (प्रजावती) उत्तमसन्तानयुक्ता (त्वा) त्वाम् (आ अगन्) प्रापत् (यज्ञः) श्रेष्ठव्यवहारः (कुम्भम्) अ० १।६।४। कु+उम्भ पूरणे-अच्, शकन्ध्वादिरूपम्। कुं भूमिमुम्भति पूरयति यस्तं श्रेष्ठव्यवहारम् (प्रतिगृभाय) प्रतिगृहाण। स्वीकुरु ॥
इस भाष्य को एडिट करें