अथर्ववेद - काण्ड 11/ सूक्त 1/ मन्त्र 18
सूक्त - ब्रह्मा
देवता - ब्रह्मौदनः
छन्दः - अतिजागतगर्भा परातिजागता विराडतिजगती
सूक्तम् - ब्रह्मौदन सूक्त
ब्रह्म॑णा शु॒द्धा उ॒त पू॒ता घृ॒तेन॒ सोम॑स्यां॒शव॑स्तण्डु॒ला य॒ज्ञिया॑ इ॒मे। अ॒पः प्र वि॑शत॒ प्रति॑ गृह्णातु वश्च॒रुरि॒मं प॒क्त्वा सु॒कृता॑मेत लो॒कम् ॥
स्वर सहित पद पाठब्रह्म॑णा । शु॒ध्दा: । उ॒त । पू॒ता: । घृ॒तेन॑ । सोम॑स्य । अं॒शव॑: । त॒ण्डु॒ला: । य॒ज्ञिया॑: । इ॒मे । अ॒प: । प्र । वि॒श॒त॒ । प्रति॑ । गृ॒ह्णा॒तु॒ । व॒: । च॒रु: । इ॒मम् । प॒क्त्वा । सु॒ऽकृता॑म् । ए॒ते॒ । लो॒कम् ॥१.१८॥
स्वर रहित मन्त्र
ब्रह्मणा शुद्धा उत पूता घृतेन सोमस्यांशवस्तण्डुला यज्ञिया इमे। अपः प्र विशत प्रति गृह्णातु वश्चरुरिमं पक्त्वा सुकृतामेत लोकम् ॥
स्वर रहित पद पाठब्रह्मणा । शुध्दा: । उत । पूता: । घृतेन । सोमस्य । अंशव: । तण्डुला: । यज्ञिया: । इमे । अप: । प्र । विशत । प्रति । गृह्णातु । व: । चरु: । इमम् । पक्त्वा । सुऽकृताम् । एते । लोकम् ॥१.१८॥
अथर्ववेद - काण्ड » 11; सूक्त » 1; मन्त्र » 18
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १८−(ब्रह्मणा) ब्रह्मज्ञानेन (शुद्धाः) शोधिताः (उत) अपि च (पूताः) पवित्राः (घृतेन) ज्ञानप्रकाशेन (सोमस्य) ऐश्वर्यस्य (अंशवः) अंश विभाजने-कु। विभाजकाः (तण्डुलाः) अ० १०।६।२६। तडि आघाते-उलच्। दुःखभञ्जकाः (यज्ञियाः) पूजार्हाः (इमे) समीपस्थाः (अपः) आपः, आप्ताः प्रजाः-दयानन्दभाष्ये, यजु० ६।२७। प्रजागणान् (प्र विशत्) (प्रतिगृह्णातु) स्वीकरोतु (चरुः) म० १६। बोधः (इमम्) बोधम् (पक्त्वा) पक्वं दृढं कृत्वा (सुकृताम्) सुकर्मिणाम् (एत) तप्तनप्तनथनाश्च। पा० ७।१।४५। इण् गतौ तस्य स्थाने तप्। इत। गच्छत (लोकम्) समाजम् ॥
इस भाष्य को एडिट करें