अथर्ववेद - काण्ड 11/ सूक्त 1/ मन्त्र 6
सूक्त - ब्रह्मा
देवता - ब्रह्मौदनः
छन्दः - उष्णिक्
सूक्तम् - ब्रह्मौदन सूक्त
अग्ने॒ सह॑स्वानभि॒भूर॒भीद॑सि॒ नीचो॒ न्युब्ज द्विष॒तः स॒पत्ना॑न्। इ॒यं मात्रा॑ मी॒यमा॑ना मि॒ता च॑ सजा॒तांस्ते॑ बलि॒हृतः॑ कृणोतु ॥
स्वर सहित पद पाठअग्ने॑ । सह॑स्वान् । अ॒भि॒ऽभू: । अ॒भि । इत् । अ॒सि॒ । नीच॑: । नि । उ॒ब्ज॒ । द्वि॒ष॒त: । स॒ऽपत्ना॑न् । इ॒यम् । मात्रा॑ । मीय॑माना । मि॒ता । च॒ । स॒ऽजा॒तान् । ते॒ । ब॒लि॒ऽहृत॑: । कृ॒णो॒तु॒ ॥१.६॥
स्वर रहित मन्त्र
अग्ने सहस्वानभिभूरभीदसि नीचो न्युब्ज द्विषतः सपत्नान्। इयं मात्रा मीयमाना मिता च सजातांस्ते बलिहृतः कृणोतु ॥
स्वर रहित पद पाठअग्ने । सहस्वान् । अभिऽभू: । अभि । इत् । असि । नीच: । नि । उब्ज । द्विषत: । सऽपत्नान् । इयम् । मात्रा । मीयमाना । मिता । च । सऽजातान् । ते । बलिऽहृत: । कृणोतु ॥१.६॥
अथर्ववेद - काण्ड » 11; सूक्त » 1; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(अग्ने) हे तेजस्विन् शूर (सहस्वान्) बलवान् (अभिभूः) अभिभविता। वशयिता (इत्) एव (अभि असि) अभिभवसि (नीचः) ऋत्विग्दधृक्। पा० ३।२।५९। नि+अञ्चु गतिपूजनयोः क्तिन्। अनिदितां हल उपधायाः ङ्किति। पा० ६।४।२४। इति नलोपः। अचः। पा० ६।४।१३८। शसि भसंज्ञायाम्। अकारलोपे। चौ। पा० ६।३।१३८। इति दीर्घः। नीचगतीन्। अधमान् (न्युब्ज) उब्ज आर्जवे, निपूर्वात् अधोमुखीकरणे। अधोमुखान् कुरु (द्विषतः) अप्रियकारिणः (सपत्नान्) शत्रून् (इयम्) (मात्रा) हुयामाश्रुभसिभ्यस्त्रन्। उ० ४।१३८। माङ् माने-त्रन्। मात्रा मानात्-निरु० ४।२५। परिमाणम् (मीयमाना) क्रियमाणा (मिता) निर्मिता (च) (सजातान्) समानजन्मनः। बन्धून् (ते) तुभ्यम् (बलिहृतः) बलेरुपायनस्य करस्य वा हारकान् प्रापकान् शत्रुसकाशात् (कृणोतु) करोतु ॥
इस भाष्य को एडिट करें