अथर्ववेद - काण्ड 11/ सूक्त 1/ मन्त्र 5
सूक्त - ब्रह्मा
देवता - ब्रह्मौदनः
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मौदन सूक्त
त्रे॒धा भा॒गो निहि॑तो॒ यः पु॒रा वो॑ दे॒वानां॑ पितॄ॒णां मर्त्या॑नाम्। अंशा॑ञ्जानीध्वं॒ वि भ॑जामि॒ तान्वो॒ यो दे॒वानां॒ स इ॒मां पा॑रयाति ॥
स्वर सहित पद पाठत्रे॒धा । भा॒ग: । निऽहि॑त: । य: । पु॒रा । व॒: । दे॒वाना॑म् । पि॒तॄ॒णाम् । मर्त्या॑नाम् । अंशा॑न् । जा॒नी॒ध्व॒म् । वि । भ॒जा॒मि॒ । तान् । व॒: । य: । दे॒वाना॑म् । स: । इ॒माम् । पा॒र॒या॒ति॒ ॥१.५॥
स्वर रहित मन्त्र
त्रेधा भागो निहितो यः पुरा वो देवानां पितॄणां मर्त्यानाम्। अंशाञ्जानीध्वं वि भजामि तान्वो यो देवानां स इमां पारयाति ॥
स्वर रहित पद पाठत्रेधा । भाग: । निऽहित: । य: । पुरा । व: । देवानाम् । पितॄणाम् । मर्त्यानाम् । अंशान् । जानीध्वम् । वि । भजामि । तान् । व: । य: । देवानाम् । स: । इमाम् । पारयाति ॥१.५॥
अथर्ववेद - काण्ड » 11; सूक्त » 1; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(त्रेधा) एधाच्च। पा० ५।३।४६। त्रि-एधाच्। त्रिप्रकारेण (भागः) अंशः (निहितः) स्थापितः (यः) (पुरा) पूर्वकाले। सृष्ट्यादौ (वः) युष्मभ्यम् (देवानाम्) विजयिनाम्। श्रेष्ठपुरुषाणाम् (पितॄणाम्) पालकानां मध्यमजनानाम् (मर्त्यानाम्) मरणधर्मणां निकृष्टजनानाम् (अंशान्) भागान् (जानीध्वम्) अवगच्छत (विभजामि) वण्टयामि परमेश्वरोऽहम् (तान्) (वः) युष्मभ्यम् (यः) भागः (देवानाम्) श्रेष्ठजनानाम् (सः) (इमाम्) प्रजाम्-म० १ (पारयाति) पार कर्मसमाप्तौ-लट्। पारयेत्। पारं नयेत् ॥
इस भाष्य को एडिट करें