अथर्ववेद - काण्ड 11/ सूक्त 1/ मन्त्र 20
सूक्त - ब्रह्मा
देवता - ब्रह्मौदनः
छन्दः - अतिजागतगर्भा परशाक्वरा चतुष्पदा भुरिग्जगती
सूक्तम् - ब्रह्मौदन सूक्त
स॒हस्र॑पृष्ठः श॒तधा॑रो॒ अक्षि॑तो ब्रह्मौद॒नो दे॑व॒यानः॑ स्व॒र्गः। अ॒मूंस्त॒ आ द॑धामि प्र॒जया॑ रेषयैनान्बलिहा॒राय॑ मृडता॒न्मह्य॑मे॒व ॥
स्वर सहित पद पाठस॒हस्र॑ऽपृष्ठ: । श॒तऽधा॑र: । अक्षि॑त: । ब्र॒ह्म॒ऽओ॒द॒न: । दे॒व॒ऽयान॑: । स्व॒:ऽग: । अ॒मून् । ते॒ । आ । द॒धा॒मि॒ । प्र॒ऽजया॑ । रे॒ष॒य॒ । ए॒ना॒न् । ब॒लि॒ऽहा॒राय॑ । मृ॒ड॒ता॒त् । मह्य॑म् । ए॒व ॥१.२०॥
स्वर रहित मन्त्र
सहस्रपृष्ठः शतधारो अक्षितो ब्रह्मौदनो देवयानः स्वर्गः। अमूंस्त आ दधामि प्रजया रेषयैनान्बलिहाराय मृडतान्मह्यमेव ॥
स्वर रहित पद पाठसहस्रऽपृष्ठ: । शतऽधार: । अक्षित: । ब्रह्मऽओदन: । देवऽयान: । स्व:ऽग: । अमून् । ते । आ । दधामि । प्रऽजया । रेषय । एनान् । बलिऽहाराय । मृडतात् । मह्यम् । एव ॥१.२०॥
अथर्ववेद - काण्ड » 11; सूक्त » 1; मन्त्र » 20
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २०−(सहस्रपृष्ठः) बहुस्तोत्रयुक्तः (शतधारः) शतं बहुविधं जगद् धरतीति यः (अक्षितः) अक्षीणः (ब्रह्मौदनः) म० १। ब्रह्मणो वेदज्ञानस्यान्नस्य धनस्य वा सेचको वर्षकः परमात्मा (देवयानः) विद्वद्भिः प्राप्यः (स्वर्गः) सुखस्य गमयिता प्रापकः (अमून्) शत्रून् (ते) तुभ्यम् (आ दधामि) समर्पयामि (प्रजया) सन्तानेन सह (रेषय) हिंसय (एनान्) अरीन् (बलिहाराय) हृञ् स्वीकरणे-घञ्। बलेः सेवाविधेः स्वीकरणाय (मृडतात्) सुखं देहि (मह्यम्) उपासकाय (एव) निश्चयेन ॥
इस भाष्य को एडिट करें