अथर्ववेद - काण्ड 11/ सूक्त 1/ मन्त्र 15
सूक्त - ब्रह्मा
देवता - ब्रह्मौदनः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - ब्रह्मौदन सूक्त
ऊ॒र्जो भा॒गो निहि॑तो॒ यः पु॒रा व॒ ऋषि॑प्रशिष्टा॒प आ भ॑रै॒ताः। अ॒यं य॒ज्ञो गा॑तु॒विन्ना॑थ॒वित्प्र॑जा॒विदु॒ग्रः प॑शु॒विद्वी॑र॒विद्वो॑ अस्तु ॥
स्वर सहित पद पाठऊ॒र्ज: । भा॒ग: । निऽहि॑त: । य: । पु॒रा । व॒: । ऋषि॑ऽप्रशिष्टा । अ॒प: । आ । भ॒र॒ । ए॒ता: । अ॒यम् । य॒ज्ञ: । गा॒तु॒ऽवित् । ना॒थ॒ऽवित् । प्र॒जा॒ऽवित् । उ॒ग्र: । प॒शु॒ऽवित् । वी॒र॒ऽवित् । व॒: । अ॒स्तु॒ ॥१.१५॥
स्वर रहित मन्त्र
ऊर्जो भागो निहितो यः पुरा व ऋषिप्रशिष्टाप आ भरैताः। अयं यज्ञो गातुविन्नाथवित्प्रजाविदुग्रः पशुविद्वीरविद्वो अस्तु ॥
स्वर रहित पद पाठऊर्ज: । भाग: । निऽहित: । य: । पुरा । व: । ऋषिऽप्रशिष्टा । अप: । आ । भर । एता: । अयम् । यज्ञ: । गातुऽवित् । नाथऽवित् । प्रजाऽवित् । उग्र: । पशुऽवित् । वीरऽवित् । व: । अस्तु ॥१.१५॥
अथर्ववेद - काण्ड » 11; सूक्त » 1; मन्त्र » 15
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १५−(ऊर्जः) पराक्रमस्य (भागः) सेवनीयो व्यवहारः (निहितः) स्थापितः (यः) (पुरा) पूर्वकाले (वः) युष्मभ्यम् (ऋषिप्रशिष्टा) शासु अनुशिष्टौ-क्त। मातापित्राचार्याभिः शिक्षिता (अपः) म० १३। व्याप्तविद्याः स्त्रीः (आ) समन्तात् (भर) पोषय (एताः) स्त्रीः (अयम्) (यज्ञः) श्रेष्ठव्यवहारः (गातुवित्) सुमार्गस्य लम्भयिता (नाथवित्) ऐश्वर्यस्य प्रापकः (प्रजावित्) प्रजानां प्रापकः (उग्रः) तेजस्वी (पशुवित्) गवाश्वादीनां लम्भकः (वीरवित्) वीराणां प्रापयिता (वः) युष्मभ्यम् (अस्तु) भवतु ॥
इस भाष्य को एडिट करें