अथर्ववेद - काण्ड 11/ सूक्त 1/ मन्त्र 36
सूक्त - ब्रह्मा
देवता - ब्रह्मौदनः
छन्दः - पुरोविराट्त्रिष्टुप्
सूक्तम् - ब्रह्मौदन सूक्त
स॒माचि॑नुष्वानुस॒म्प्रया॒ह्यग्ने॑ प॒थः क॑ल्पय देव॒याना॑न्। ए॒तैः सु॑कृ॒तैरनु॑ गच्छेम य॒ज्ञं नाके॒ तिष्ठ॑न्त॒मधि॑ स॒प्तर॑श्मौ ॥
स्वर सहित पद पाठस॒म्ऽआचि॑नुष्व । अ॒नु॒ऽसं॒प्रया॑हि । अ॒ग्ने॒ । प॒थ: । क॒ल्प॒य॒ । दे॒व॒ऽयाना॑न् । ए॒तै: । सु॒ऽकृ॒तै: । अनु॑ । ग॒च्छे॒म॒ । य॒ज्ञम् । नाके॑ । तिष्ठ॑न्तम् । अधि॑ । स॒प्तऽर॑श्मौ ॥१.३६॥
स्वर रहित मन्त्र
समाचिनुष्वानुसम्प्रयाह्यग्ने पथः कल्पय देवयानान्। एतैः सुकृतैरनु गच्छेम यज्ञं नाके तिष्ठन्तमधि सप्तरश्मौ ॥
स्वर रहित पद पाठसम्ऽआचिनुष्व । अनुऽसंप्रयाहि । अग्ने । पथ: । कल्पय । देवऽयानान् । एतै: । सुऽकृतै: । अनु । गच्छेम । यज्ञम् । नाके । तिष्ठन्तम् । अधि । सप्तऽरश्मौ ॥१.३६॥
अथर्ववेद - काण्ड » 11; सूक्त » 1; मन्त्र » 36
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३६−(समाचिनुष्व) चिञ् चयने-लोट्। समाभावेन समन्ताद् रचनं कुरु (अनु संप्रयाहि) निरन्तरं सम्यक् प्रकर्षेण गच्छ (अग्ने) हे विद्वन् पुरुष (पथः) मार्गान् (कल्पय) विरचय (देवयानान्) विजिगीषुभिर्गन्तव्यान् (एतैः) पूर्वोक्तैः (सुकृतैः) सुनिर्मितैः पथिभिः (अनु) निरन्तरम् (गच्छेम) प्राप्नुयाम (यज्ञम्) पूजनीयं परमात्मानम् (नाके) अ० १।९।२। पिनाकादयश्च। उ० ४।१५। णीञ् प्रापणे आकप्रत्ययः, टिलोपः। नाक आदित्यो भवति नेता रसानां नेता भासां ज्योतिषां प्रणयः-निरु० २।१४। लोकानां प्रकाशादीनां वा नेतरि सूर्ये। यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी। पा० २।३।९। इति कर्मप्रवचनीययुक्ते सप्तमी (तिष्ठन्तम्) विद्यमानम् (अधि) अधिरीश्वरे। पा० १।४।९९। इति ईश्वरार्थे कर्मप्रवचनीयत्वम्। ईश्वरो भूत्वा (सप्तरश्मौ) अ० ६।५।१५। शुक्लनीलपीतादिवर्णाः सप्तकिरणाः सन्ति यस्मिन् तस्मिन् ॥
इस भाष्य को एडिट करें