अथर्ववेद - काण्ड 11/ सूक्त 1/ मन्त्र 17
सूक्त - ब्रह्मा
देवता - ब्रह्मौदनः
छन्दः - विराड्जगती
सूक्तम् - ब्रह्मौदन सूक्त
शु॒द्धाः पू॒ता यो॒षितो॑ य॒ज्ञिया॑ इ॒मा आप॑श्च॒रुमव॑ सर्पन्तु शु॒भ्राः। अदुः॑ प्र॒जां ब॑हु॒लान्प॒शून्नः॑ प॒क्तौद॒नस्य॑ सु॒कृता॑मेतु लो॒कम् ॥
स्वर सहित पद पाठशु॒ध्दा: । पू॒ता: । यो॒षित॑: । य॒ज्ञिया॑: । इ॒मा: । आप॑: । च॒रुम् । अव॑ । स॒र्प॒न्तु॒ । शु॒भ्रा: । अदु॑: । प्र॒ऽजाम् । ब॒हु॒लान् । प॒शून् । न॒: । प॒क्ता । ओ॒द॒नस्य॑ । सु॒ऽकृता॑म् । ए॒तु॒ । लो॒कम् ॥१.१७॥
स्वर रहित मन्त्र
शुद्धाः पूता योषितो यज्ञिया इमा आपश्चरुमव सर्पन्तु शुभ्राः। अदुः प्रजां बहुलान्पशून्नः पक्तौदनस्य सुकृतामेतु लोकम् ॥
स्वर रहित पद पाठशुध्दा: । पूता: । योषित: । यज्ञिया: । इमा: । आप: । चरुम् । अव । सर्पन्तु । शुभ्रा: । अदु: । प्रऽजाम् । बहुलान् । पशून् । न: । पक्ता । ओदनस्य । सुऽकृताम् । एतु । लोकम् ॥१.१७॥
अथर्ववेद - काण्ड » 11; सूक्त » 1; मन्त्र » 17
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १७−(शुद्धाः) निर्मलस्वभावाः (पूताः) पवित्राचाराः (योषितः) अ० १।१७।१। सेव्याः स्त्रियः (यज्ञियाः) पूजार्हाः (आपः) म० १३। व्याप्तविद्याः स्त्रियः (चरुम्) म० १६। बोधम् (सर्पन्तु) गच्छन्तु। प्राप्नुवन्तु (शुभ्रः) शुभचरित्राः (अदुः) प्रायच्छन् (प्रजाम्) सन्तानम् (बहुलान्) (बहून्) (पशून्) गोमहिष्याद्यान् (नः) अस्मभ्यम् (पक्ता) दृढकर्त्ता (ओदनस्य) अ० ९।५।१९। सुखस्य सेचकस्य वर्षकस्य मेघरूपस्य वा परमेश्वरस्य (सुकृताम्) पुण्यकर्मिणाम् (एतु) प्राप्नोतु (लोकम्) दर्शनीयं समाजम् ॥
इस भाष्य को एडिट करें