Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 1/ मन्त्र 23
    सूक्त - ब्रह्मा देवता - ब्रह्मौदनः छन्दः - त्रिष्टुप् सूक्तम् - ब्रह्मौदन सूक्त

    ऋ॒तेन॑ त॒ष्टा मन॑सा हि॒तैषा ब्र॑ह्मौद॒नस्य॒ विहि॑ता॒ वेदि॒रग्रे॑। अं॑स॒द्रीं शु॒द्धामुप॑ धेहि नारि॒ तत्रौ॑द॒नं सा॑दय दै॒वाना॑म् ॥

    स्वर सहित पद पाठ

    ऋ॒तेन॑ । त॒ष्टा । मन॑सा । हि॒ता । ए॒षा । ब्र॒ह्म॒ऽओ॒द॒नस्य॑ । विऽहि॑ता । वेदि॑: । अग्रे॑ । अं॒स॒द्रीम् । शु॒ध्दाम् । उप॑ । धे॒हि॒ । ना॒रि॒ । तत्र॑ । ओ॒द॒नम् । सा॒द॒य॒ । दै॒वाना॑म् ॥१.२३॥


    स्वर रहित मन्त्र

    ऋतेन तष्टा मनसा हितैषा ब्रह्मौदनस्य विहिता वेदिरग्रे। अंसद्रीं शुद्धामुप धेहि नारि तत्रौदनं सादय दैवानाम् ॥

    स्वर रहित पद पाठ

    ऋतेन । तष्टा । मनसा । हिता । एषा । ब्रह्मऽओदनस्य । विऽहिता । वेदि: । अग्रे । अंसद्रीम् । शुध्दाम् । उप । धेहि । नारि । तत्र । ओदनम् । सादय । दैवानाम् ॥१.२३॥

    अथर्ववेद - काण्ड » 11; सूक्त » 1; मन्त्र » 23

    टिप्पणीः - २३−(ऋतेन) सत्येन (तष्टा) तनूकृता। निर्मिता (मनसा) विज्ञानेन (हिता) धृता (एषा) (ब्रह्मौदनस्य) म० १। ब्रह्मणो वेदज्ञानस्यान्नस्य वा सेचकस्य वर्षकस्य परमात्मनः (विहिता) विधिना बोधिता (वेदिः) यज्ञभूमिः, हृदयमित्यर्थः (अग्रे) पूर्वकाले (अंसद्रीम्) अमेः सन्। उ० ५।२१। अम रोगे, पीडने, गतौ भोजने च-सन्+द्रु गतौ-ड, ङीप्। भोजनपाचनपात्रम्। कटाहम् (शुद्धाम्) निर्मलाम् (उप धेहि) उपरि धारय (नारि) म० १३। हे शक्तिमति प्रजे (तत्र) तस्मिन् पात्रे (ओदनम्) म० १७। अन्नरूपं परमात्मानम् (सादय) स्थापय (दैवानाम्) दिव्यगुणवतां पुरुषाणाम् ॥

    इस भाष्य को एडिट करें
    Top