अथर्ववेद - काण्ड 11/ सूक्त 1/ मन्त्र 13
सूक्त - ब्रह्मा
देवता - ब्रह्मौदनः
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मौदन सूक्त
परे॑हि नारि॒ पुन॒रेहि॑ क्षि॒प्रम॒पां त्वा॑ गो॒ष्ठोऽध्य॑रुक्ष॒द्भरा॑य। तासां॑ गृह्णीताद्यत॒मा य॒ज्ञिया॒ अस॑न्वि॒भाज्य॑ धी॒रीत॑रा जहीतात् ॥
स्वर सहित पद पाठपरा॑ । इ॒हि॒ । ना॒रि॒ । पुन॑: । आ । इ॒हि॒ । क्षि॒प्रम् । अ॒पाम् । त्वा॒ । गो॒ऽस्थ: । अधि॑ । अ॒रु॒क्ष॒त् । भरा॑य । तासा॑म् । गृ॒ह्णी॒ता॒त् । य॒त॒मा: । य॒ज्ञिया॑: । अस॑न् । वि॒ऽभाज्य॑ । धी॒री । इत॑रा: । ज॒ही॒ता॒त् ॥१.१३॥
स्वर रहित मन्त्र
परेहि नारि पुनरेहि क्षिप्रमपां त्वा गोष्ठोऽध्यरुक्षद्भराय। तासां गृह्णीताद्यतमा यज्ञिया असन्विभाज्य धीरीतरा जहीतात् ॥
स्वर रहित पद पाठपरा । इहि । नारि । पुन: । आ । इहि । क्षिप्रम् । अपाम् । त्वा । गोऽस्थ: । अधि । अरुक्षत् । भराय । तासाम् । गृह्णीतात् । यतमा: । यज्ञिया: । असन् । विऽभाज्य । धीरी । इतरा: । जहीतात् ॥१.१३॥
अथर्ववेद - काण्ड » 11; सूक्त » 1; मन्त्र » 13
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १३−(परा) पराक्रमेण (इहि) गच्छ (नारि) अ० १।११।१। नर-अञ्, ङीन्। नराणामियं शक्तिमती स्त्री तत्सम्बुद्धौ-दयानन्दभाष्ये, यजु० ५।२६। (पुनः) अवधारणे (एहि) आगच्छ (क्षिप्रम्) शीघ्रम् (अपाम्) व्याप्तविद्यानां स्त्रीणाम्-दयानन्दभाष्ये, यजु० १०।७। (त्वा) त्वाम् (गोष्ठः) गावोऽनेका वाचस्तिष्ठन्त्यत्र। गोष्ठी। समाजः (अधि अरुक्षत्) रुह बीजजन्मनि प्रादुर्भावे च-लुङ्। आरूढवान् (भराय) पोषणाय (तासाम्) स्त्रीणाम् (गृह्णीतात्) गृहाण। स्वीकुरु (यतमाः) बह्वीषु याः (यज्ञियाः) पूजार्हाः (असन्) लेटि रूपम्। भवेयुः (विभाज्य) विविच्य (धीरी) धीमती (इतराः) अन्याः (जहीतात्) ओहाक् त्यागे। जहीहि। परित्यज ॥
इस भाष्य को एडिट करें