Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 1/ मन्त्र 33
    सूक्त - ब्रह्मा देवता - ब्रह्मौदनः छन्दः - त्रिष्टुप् सूक्तम् - ब्रह्मौदन सूक्त

    आ॑र्षे॒येषु॒ नि द॑ध ओदन त्वा॒ नाना॑र्षेयाणा॒मप्य॒स्त्यत्र॑। अ॒ग्निर्मे॑ गो॒प्ता म॒रुत॑श्च॒ सर्वे॒ विश्वे॑ दे॒वा अ॒भि र॑क्षन्तु प॒क्वम् ॥

    स्वर सहित पद पाठ

    आ॒र्षे॒येषु॑ । नि । द॒धे॒ । ओ॒द॒न॒ । त्वा॒ । न । अना॑र्षेयाणाम् । अपि॑ । अ॒स्ति॒ । अत्र॑ । अ॒ग्नि: । मे॒ । गो॒प्ता । म॒रुत॑: । च॒ । सर्वे॑ । विश्वे॑ । दे॒वा: । अ॒भि । र॒क्ष॒न्तु॒ । प॒क्वम् ॥१.३३॥


    स्वर रहित मन्त्र

    आर्षेयेषु नि दध ओदन त्वा नानार्षेयाणामप्यस्त्यत्र। अग्निर्मे गोप्ता मरुतश्च सर्वे विश्वे देवा अभि रक्षन्तु पक्वम् ॥

    स्वर रहित पद पाठ

    आर्षेयेषु । नि । दधे । ओदन । त्वा । न । अनार्षेयाणाम् । अपि । अस्ति । अत्र । अग्नि: । मे । गोप्ता । मरुत: । च । सर्वे । विश्वे । देवा: । अभि । रक्षन्तु । पक्वम् ॥१.३३॥

    अथर्ववेद - काण्ड » 11; सूक्त » 1; मन्त्र » 33

    टिप्पणीः - ३३−(आर्षेयेषु) म० १६। ऋषिषु विख्यातेषु (नि दधे) स्थापयामि (ओदन) म० १७। हे सुखस्य वर्षक (त्वा) त्वाम् (न) निषेधे (अनार्षेयाणाम्) ऋषिषु विख्यातेभ्यो भिन्नानां पाखण्डिनाम् भाग इति शेषः (अपि) सम्भावनायाम् (अस्ति) (अत्र) ओदनविषये (अग्निः) जाठराग्निः (मे) मम (गोप्ता) गोपायिता रक्षिता (मरुतः) प्राणादयो वायवः (च) (सर्वे) (विश्वे) समस्ताः (देवाः) इन्द्रियाणि (अभि) सर्वतः (रक्षन्तु) धरन्तु (पक्वम्) दृढस्वभावं परमेश्वरम् ॥

    इस भाष्य को एडिट करें
    Top