अथर्ववेद - काण्ड 11/ सूक्त 1/ मन्त्र 27
सूक्त - ब्रह्मा
देवता - ब्रह्मौदनः
छन्दः - अतिजागतगर्भा जगती
सूक्तम् - ब्रह्मौदन सूक्त
शु॒द्धाः पू॒ता यो॒षितो॑ य॒ज्ञिया॑ इ॒मा ब्र॒ह्मणां॒ हस्ते॑षु प्रपृ॒थक् सा॑दयामि। यत्का॑म इ॒दम॑भिषि॒ञ्चामि॑ वो॒ऽहमिन्द्रो॑ म॒रुत्वा॒न्त्स द॑दादि॒दं मे॑ ॥
स्वर सहित पद पाठशु॒ध्दा: । पू॒ता: । यो॒षित॑: । य॒ज्ञिया॑: । इ॒मा: । ब्र॒ह्मणा॑म् । हस्ते॑षु । प्र॒ऽपृ॒थक् । सा॒द॒या॒मि॒ । यत्ऽका॑म: । इ॒दम् । अ॒भि॒ऽसि॒ञ्चामि॑ । व॒: । अ॒हम् । इन्द्र॑: । म॒रुत्वा॑न् । स: । द॒दा॒त् । इ॒दम् । मे॒ ॥१.२७॥
स्वर रहित मन्त्र
शुद्धाः पूता योषितो यज्ञिया इमा ब्रह्मणां हस्तेषु प्रपृथक् सादयामि। यत्काम इदमभिषिञ्चामि वोऽहमिन्द्रो मरुत्वान्त्स ददादिदं मे ॥
स्वर रहित पद पाठशुध्दा: । पूता: । योषित: । यज्ञिया: । इमा: । ब्रह्मणाम् । हस्तेषु । प्रऽपृथक् । सादयामि । यत्ऽकाम: । इदम् । अभिऽसिञ्चामि । व: । अहम् । इन्द्र: । मरुत्वान् । स: । ददात् । इदम् । मे ॥१.२७॥
अथर्ववेद - काण्ड » 11; सूक्त » 1; मन्त्र » 27
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २७−(योषितः) अ० १।१७।१। सेव्याः प्रजाः (ददात्) लेटि रूपम्। ददातु (इदम्) काम्यमानं फलम्। अन्यत् पूर्ववत्-अ० ६।१२२।५ ॥
इस भाष्य को एडिट करें