Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 1/ मन्त्र 9
    सूक्त - ब्रह्मा देवता - ब्रह्मौदनः छन्दः - शक्वरातिजागतगर्भा जगती सूक्तम् - ब्रह्मौदन सूक्त

    ए॒तौ ग्रावा॑णौ स॒युजा॑ युङ्ग्धि॒ चर्म॑णि॒ निर्भि॑न्ध्यं॒शून्यज॑मानाय सा॒धु। अ॒व॒घ्न॒ती नि ज॑हि॒ य इ॒मां पृ॑त॒न्यव॑ ऊ॒र्ध्वं प्र॒जामु॑द्भर॒न्त्युदू॑ह ॥

    स्वर सहित पद पाठ

    ए॒तौ । ग्रावा॑णौ । स॒ऽयुजा॑ । यु॒ङ्ग्धि॒ । चर्म॑णि । नि: । भि॒न्धि॒ । अं॒शून् । यज॑मानाय । सा॒धु । अ॒व॒ऽघ्न॒ती । नि । ज॒हि॒ । ये । इ॒माम् । पृ॒त॒न्यव: । ऊ॒र्ध्वम् । प्र॒ऽजाम् । उ॒त्ऽभर॑न्ती । उत् । ऊ॒ह ॥१.९॥


    स्वर रहित मन्त्र

    एतौ ग्रावाणौ सयुजा युङ्ग्धि चर्मणि निर्भिन्ध्यंशून्यजमानाय साधु। अवघ्नती नि जहि य इमां पृतन्यव ऊर्ध्वं प्रजामुद्भरन्त्युदूह ॥

    स्वर रहित पद पाठ

    एतौ । ग्रावाणौ । सऽयुजा । युङ्ग्धि । चर्मणि । नि: । भिन्धि । अंशून् । यजमानाय । साधु । अवऽघ्नती । नि । जहि । ये । इमाम् । पृतन्यव: । ऊर्ध्वम् । प्रऽजाम् । उत्ऽभरन्ती । उत् । ऊह ॥१.९॥

    अथर्ववेद - काण्ड » 11; सूक्त » 1; मन्त्र » 9

    टिप्पणीः - ९−(एतौ) पुरोवर्तिनौ (ग्रावाणौ) उलूखलमुसलरूपौ धान्याद्यवहननप्रस्तरौ (सयुजा) सयुजौ। सहयुञ्जानौ (युङ्ग्धि) योजय (चर्मणि) विज्ञाने-म० ८ (निर्भिन्द्धि) निरन्तरं छिन्द्धि (अंशून्) अंश विभाजने-कु। अवयवान् (यजमानाय) श्रेष्ठकर्मकारकाय (साधु) यथा तथा। सुन्दररीत्या (अवघ्नती) अवहननं कुर्वती (नि जहि) नितरां नाशय तान् शत्रून् (ये) (इमाम्) समीपस्थाम् (पृतन्यवः) अ० ७।३४।१। सङ्ग्रामेच्छवः (ऊर्ध्वम्) उन्नतं यथा तथा (प्रजाम्) प्रजां प्रति (उद्भरन्ती) उन्नतां धरन्ती (उत्) उत्तमम् (ऊह) ऊह वितर्के। परस्मैपदं छान्दसम्। विचारय ॥

    इस भाष्य को एडिट करें
    Top