Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 1/ मन्त्र 8
    सूक्त - ब्रह्मा देवता - ब्रह्मौदनः छन्दः - विराड्गायत्री सूक्तम् - ब्रह्मौदन सूक्त

    इ॒यं म॒ही प्रति॑ गृह्णातु॒ चर्म॑ पृथि॒वी दे॒वी सु॑मन॒स्यमा॑ना। अथ॑ गच्छेम सुकृ॒तस्य॑ लो॒कम् ॥

    स्वर सहित पद पाठ

    इ॒यम् । म॒ही । प्रति॑ । गृ॒ह्णा॒तु॒ । चर्म॑ । पृ॒थि॒वी । दे॒वी । सु॒ऽम॒न॒स्यमा॑ना । अथ॑ । ग॒च्छे॒म॒ । सु॒ऽकृ॒तस्य॑ । लो॒कम् ॥१.८॥


    स्वर रहित मन्त्र

    इयं मही प्रति गृह्णातु चर्म पृथिवी देवी सुमनस्यमाना। अथ गच्छेम सुकृतस्य लोकम् ॥

    स्वर रहित पद पाठ

    इयम् । मही । प्रति । गृह्णातु । चर्म । पृथिवी । देवी । सुऽमनस्यमाना । अथ । गच्छेम । सुऽकृतस्य । लोकम् ॥१.८॥

    अथर्ववेद - काण्ड » 11; सूक्त » 1; मन्त्र » 8

    टिप्पणीः - ८−(इयम्) उपस्थिता (मही) महती (प्रतिगृह्णातु) स्वीकरोतु (चर्म) सर्वधातुभ्यो मनिन्। उ० ४।१४५। चर गतिभक्षणयोः मनिन्। विज्ञानम्-दयानन्दभाष्ये, यजु० ३०।१५। (पृथिवी) विभक्तेः सु। पृथिव्याम् (देवी) उत्तमगुणा (सुमनस्यमाना) भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः। पा० ३।१।१२। सुमनस्-क्यङ्, शानच्। शुभचिन्तिका (अथ) अनन्तरम् (गच्छेम) प्राप्नुयाम (सुकृतस्य) पुण्यस्य (लोकम्) समाजम् ॥

    इस भाष्य को एडिट करें
    Top