अथर्ववेद - काण्ड 11/ सूक्त 1/ मन्त्र 7
सूक्त - ब्रह्मा
देवता - ब्रह्मौदनः
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मौदन सूक्त
सा॒कं स॑जा॒तैः पय॑सा स॒हैध्युदु॑ब्जैनां मह॒ते वी॒र्याय। ऊ॒र्ध्वो नाक॒स्याधि॑ रोह वि॒ष्टपं॑ स्व॒र्गो लो॒क इति॒ यं वद॑न्ति ॥
स्वर सहित पद पाठसा॒कम् । स॒ऽजा॒तै: । पय॑सा । स॒ह । ए॒धि॒ । उत् । उ॒ब्ज॒ । ए॒ना॒म् । म॒ह॒ते । वी॒र्या᳡य । ऊ॒र्ध्व: । नाक॑स्य । अधि॑ । रो॒ह॒ । वि॒ष्टप॑म् । स्व॒:ऽग: । लो॒क: । इति॑ । यम् । वद॑न्ति ॥१.७॥
स्वर रहित मन्त्र
साकं सजातैः पयसा सहैध्युदुब्जैनां महते वीर्याय। ऊर्ध्वो नाकस्याधि रोह विष्टपं स्वर्गो लोक इति यं वदन्ति ॥
स्वर रहित पद पाठसाकम् । सऽजातै: । पयसा । सह । एधि । उत् । उब्ज । एनाम् । महते । वीर्याय । ऊर्ध्व: । नाकस्य । अधि । रोह । विष्टपम् । स्व:ऽग: । लोक: । इति । यम् । वदन्ति ॥१.७॥
अथर्ववेद - काण्ड » 11; सूक्त » 1; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(साकम्) सार्धम् (सजातैः) समानजन्मभिः। बन्धुभिः (पयसा) अन्नेन-निघ० २।७। (सः) (एधि) अस्तेर्लोटि। भव। वर्तस्व (उदुब्ज) उद्गमय। उन्नतां करु (एनाम्) प्रजाम्-म० १। (महते) प्रभूताय (वीर्याय) वीरकर्मणे (ऊर्ध्वः) उन्नतः सन् (नाकस्य) सुखस्य (अधि रोह) अधिरूढो भव (विष्टपम्) अ० १०।१०।३१। विश प्रवेशने कप् प्रत्ययः तुडागमः। प्रवेशम्। आश्रयम् (स्वर्गः) सुखप्रापकः (लोकः) दर्शनीयः प्रदेशः (इति) (यम्) नाकम् (वदन्ति) कथयन्ति विद्वांसः ॥
इस भाष्य को एडिट करें